Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 79
________________ रसपद्धतिः । टी०-यवलक्षणमाह-रक्तेत्यादि । रक्तपीतसितकृष्णभेदाच्चतुर्धा । तत्र सितः पूज्यः, अपरे निषिद्धाः।मलं लक्षयति । धारायामथ कोणयोर्निगदितो मध्ये च लौहो मलस्त्रेधा सोऽप्यनलादिभीतिजननो धतुर्भवेनिश्चितम् ॥१०१॥ टी०-धारायामित्यादि।-धारायां मलः, कोणे मलः, मध्ये मल इति त्रेधा लौहो मलो शेयः । तद्युक्तग्रहणे दोषमाह-सोऽपीति । तच्छब्देन मलविशिष्टो गृह्यते । तद्धारयितुरनलादिभिर्भीतिरवश्यं भवति, तस्मान्न धार्यो न ग्राह्यश्च ॥१०१॥ चतुर्धा रेखा विभजतेसव्यासव्यनिवासिनी तदपरा तत्र स्थिता छेदिनी छिन्ना चोर्ध्वगतिर्मतेति विबुधै रेखाश्चतस्रः पवेः। टी०-सव्या वामा, अपसव्या दक्षिणस्था, छेदवती या रेखा स्थिता, अपरा छिन्ना सती ऊर्ध्वगतिः या ऊर्ध्व गता; एवं चतस्रो रेखा मताः। तथा च-एका सव्या रेखा, एका दक्षिणा रेखा, छेदिनी स्थिता एका, छेदिनी चोर्ध्वगता एका ॥तासां निन्दितलमनिन्द्यत्वं चाहसव्या तत्र शुभाऽपराः पुनरमूर्दोर्भाग्यदा वर्तुलेऽप्यन्तर्भेदिनि लमकोणिनि पवौदोषास्त्वकिंचित्कराः १०२ टी०-सव्येति । तत्र सव्या या सा शुभा भवति । अपरास्तिस्रो दौर्भाग्यादिकारिण्यः । उक्तदोषाणामपवादमाह-वर्तुले इत्यादि । वर्तुले वर्तलाकारे तस्याः खरूपे । दोषे लमकोणिनि संलग्नकोणे । एवंभूते वज्रे एते दोषाः सर्वेऽप्यकिंचित्करा निष्फला इत्यर्थः ॥ १०२॥ गुणानुद्दिशति ।अच्छत्वं लघुता तथाऽष्टफलता षट्कोणता तीक्ष्णताऽप्येतान्पश्च गुणान् गृणन्ति गुणिनो देवोपभोग्ये पवौ १०३ टी०-अच्छत्वमिति । उत्तमे पवौ आदर्शादिवदच्छत्वम् । लघुता तुषवत् । मिति । उत्तम पवा आदशीविदच्छत्वम् । लघुता उपवन अष्टदलता अष्टफलकता। षट्कोणता षडस्रता । तीक्ष्णता अन्यमणिभेदकता । एते पञ्च गुणाः ॥ १०३ ॥ . १ 'धाराकोणकमध्यसंस्थिततया त्रेधा मलो रत्न विद्याख्यातः स पुनर्ग्रहीतुरनलव्याघ्रादिभीतिप्रदः' इति पाठान्तरम् । २ 'तथाऽष्टदलता' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144