Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 67
________________ रसपद्धतिः। चारणजारणादि सर्वं ज्ञेयम् । अथवा सोमनालेनाभ्रकजारणं, चक्रयन्त्रेण नाभियन्त्रेण वाऽभ्रकादिजारणं; इत्यादि यथाशास्त्रमूह्यम् । तदुक्तम्-'ऊर्द्ध वह्निरधश्चापो मध्ये तु रससंग्रहः । सोमनालमिति प्रोक्तं जारयेद्गनादिकम्' इति । तदुक्तं रसरत्नाकरे"हिङ्गुलोत्थं तु यत्सूतं भूनागैर्मर्दयेत्र्यहम् । तप्तखल्वे ततः पाल्यमूर्ध्व लग्नं समाहरेत् ॥ पादांशं जारयेत्तस्य द्वन्द्वितं व्योमसत्त्वकम् । ततो माक्षिकसत्त्वं तु पादांशं तत्र जारयेत् ॥ पूर्ववद्विडयोगेन, मात्रा पाकश्च पूर्ववत् । महारसैश्चोपरसैर्यत्सत्त्वं पातितं पुरा ॥ तत्सर्वं च पृथक्पादं सूते दत्त्वा विमर्दयेत् । तप्तखल्वे दिनैकं तु गर्भद्रावकसंयुतम् ॥ द्रवत्येव ततो जार्य मूषायन्त्रे च पूर्ववत् । जीणे जीर्णे पुनर्देयं प्रतिसत्त्वं क्रमेण वै ॥ ततस्तस्यैव पादांशं गर्भद्रावणबीजकम् । पूर्ववद्रावितं जार्य क्रमेणानेन षड्गुणम् ॥ सारणादि क्रामणान्तं तारवेधं प्रदापयेत् । सहस्रांशेन तत्स्वर्ण जाम्बूनदसमप्रभम्"---इति । गर्भद्रावकयोगमाह,-"सैन्धवेन समं ताप्यं धर्म मद्य पुटे पचेत् । पुनर्मद्य पुनः पाच्यं यावद्वादशवारकम् ॥ अस्य तुल्यं मृतं नागं सर्वमम्लेन पेषयेत् । अनेन स्वर्णपत्राणि लिप्तानि प्रधमेदृढम् ॥ द्रुतं च वापितं तत्तु सप्तवारं पुनः पुनः । एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥ शिला सौवर्चलं ताप्यं गन्धं कांक्षी च टङ्कणम् । मर्दयेच्चकणाम्लेन सर्वमेतहिनावधि ॥रसस्यैतत् षोडशांशं दत्त्वा बीजं च दापयेत् । दीयते यत्र यत्रैव तत्र द्रवति मर्दनात् ॥ अपामार्गपलाशोत्थभस्मक्षारं समाहरेत् । टवणं च यवक्षारं कोंक्षी चैव सुवर्चलम् । सामुद्रं सैन्धवं राजी माक्षिकं नवसारकम् ॥ कर्पूरं काञ्जिकं तुल्यं स्नुह्यकक्षीरमर्दितम् । मूषालेपमनेनैव कृत्वा कुर्याद्विडेन तु । लेपमङ्गुलमानेन मूषायत्रमिदं भवेत् । गर्भद्रावितबीजाक्तं सूतमत्र विनिक्षिपेत् ॥ रुद्धा खेदं दिनैकं तु करीषाग्नौ ग्रसत्यलम्”- इति । अथ भूनागसत्त्वतैलादि "सौवीरं कान्तपाषाणं तीक्ष्णपाषाणचूर्णकम् । एतेषां तुल्यभूनागचूर्णमेकत्र मर्दयेत् । अभ्रवद्वाहयेत्सत्त्वं तत्रत्यैरौषधैर्धमेत् ॥ दिनं भूनागसंतुल्यं धर्मे सौवीरमञ्जनम् । पञ्चमाहिषसंमिश्रं कृत्वाऽथ वटकीकृतम् ॥ तस्मात्पातालयन्त्रेण तैलं ग्राह्यं पुटेन वै । भूलतां तु गवां मूत्रैः क्षालयेत्ताभिराहरेत् । तैलं पातालयन्त्रेण तत्तैलं जारणे हितम् । भूलतां कान्तपाषाणं चूर्णीकृत्य समं समम् ॥ तत्सत्त्वमभ्रवद्राह्यं तत्रत्यैरौषधैः सह । तप्तखल्वे शुद्धसूतं जीवभूनागसंयुतम् ॥ त्रिदिनं मर्दयेद्गाढं तत्समस्तं समं समम् । भूनागचूर्णयुक्तायां मूषायां सनिवेशयेत् ॥ तदूर्ध्व भूलताचूर्ण दत्त्वा रुद्धाऽथ मुद्रयेत् । गर्तान्तर्गोमयं सान्द्रं क्षिप्त्वा मूषां निवेशयेत् ॥ पादमग्नां तु तां गर्ने करीषतुषवह्निना । पुटे पचेद्दिनैकं तु समुद्धल्याथ दापयेत् ॥ ऊर्ध्वाधो भूलताचूर्ण दत्त्वा तद्वत्पुटे पचेत् । मासमात्रमिदं कुर्याद्भवेदग्निसहो रसः ॥ जायते __१ 'गन्धकासीसटङ्कणम्' इति पा० । २ 'कासीसं च' इति पा० । ३ 'शोषयेत्' इति पा०। ४ 'दग्निमुखो' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144