________________
रसपद्धतिः।
चारणजारणादि सर्वं ज्ञेयम् । अथवा सोमनालेनाभ्रकजारणं, चक्रयन्त्रेण नाभियन्त्रेण वाऽभ्रकादिजारणं; इत्यादि यथाशास्त्रमूह्यम् । तदुक्तम्-'ऊर्द्ध वह्निरधश्चापो मध्ये तु रससंग्रहः । सोमनालमिति प्रोक्तं जारयेद्गनादिकम्' इति । तदुक्तं रसरत्नाकरे"हिङ्गुलोत्थं तु यत्सूतं भूनागैर्मर्दयेत्र्यहम् । तप्तखल्वे ततः पाल्यमूर्ध्व लग्नं समाहरेत् ॥ पादांशं जारयेत्तस्य द्वन्द्वितं व्योमसत्त्वकम् । ततो माक्षिकसत्त्वं तु पादांशं तत्र जारयेत् ॥ पूर्ववद्विडयोगेन, मात्रा पाकश्च पूर्ववत् । महारसैश्चोपरसैर्यत्सत्त्वं पातितं पुरा ॥ तत्सर्वं च पृथक्पादं सूते दत्त्वा विमर्दयेत् । तप्तखल्वे दिनैकं तु गर्भद्रावकसंयुतम् ॥ द्रवत्येव ततो जार्य मूषायन्त्रे च पूर्ववत् । जीणे जीर्णे पुनर्देयं प्रतिसत्त्वं क्रमेण वै ॥ ततस्तस्यैव पादांशं गर्भद्रावणबीजकम् । पूर्ववद्रावितं जार्य क्रमेणानेन षड्गुणम् ॥ सारणादि क्रामणान्तं तारवेधं प्रदापयेत् । सहस्रांशेन तत्स्वर्ण जाम्बूनदसमप्रभम्"---इति । गर्भद्रावकयोगमाह,-"सैन्धवेन समं ताप्यं धर्म मद्य पुटे पचेत् । पुनर्मद्य पुनः पाच्यं यावद्वादशवारकम् ॥ अस्य तुल्यं मृतं नागं सर्वमम्लेन पेषयेत् । अनेन स्वर्णपत्राणि लिप्तानि प्रधमेदृढम् ॥ द्रुतं च वापितं तत्तु सप्तवारं पुनः पुनः । एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥ शिला सौवर्चलं ताप्यं गन्धं कांक्षी च टङ्कणम् । मर्दयेच्चकणाम्लेन सर्वमेतहिनावधि ॥रसस्यैतत् षोडशांशं दत्त्वा बीजं च दापयेत् । दीयते यत्र यत्रैव तत्र द्रवति मर्दनात् ॥ अपामार्गपलाशोत्थभस्मक्षारं समाहरेत् । टवणं च यवक्षारं कोंक्षी चैव सुवर्चलम् । सामुद्रं सैन्धवं राजी माक्षिकं नवसारकम् ॥ कर्पूरं काञ्जिकं तुल्यं स्नुह्यकक्षीरमर्दितम् । मूषालेपमनेनैव कृत्वा कुर्याद्विडेन तु । लेपमङ्गुलमानेन मूषायत्रमिदं भवेत् । गर्भद्रावितबीजाक्तं सूतमत्र विनिक्षिपेत् ॥ रुद्धा खेदं दिनैकं तु करीषाग्नौ ग्रसत्यलम्”- इति । अथ भूनागसत्त्वतैलादि "सौवीरं कान्तपाषाणं तीक्ष्णपाषाणचूर्णकम् । एतेषां तुल्यभूनागचूर्णमेकत्र मर्दयेत् । अभ्रवद्वाहयेत्सत्त्वं तत्रत्यैरौषधैर्धमेत् ॥ दिनं भूनागसंतुल्यं धर्मे सौवीरमञ्जनम् । पञ्चमाहिषसंमिश्रं कृत्वाऽथ वटकीकृतम् ॥ तस्मात्पातालयन्त्रेण तैलं ग्राह्यं पुटेन वै । भूलतां तु गवां मूत्रैः क्षालयेत्ताभिराहरेत् । तैलं पातालयन्त्रेण तत्तैलं जारणे हितम् । भूलतां कान्तपाषाणं चूर्णीकृत्य समं समम् ॥ तत्सत्त्वमभ्रवद्राह्यं तत्रत्यैरौषधैः सह । तप्तखल्वे शुद्धसूतं जीवभूनागसंयुतम् ॥ त्रिदिनं मर्दयेद्गाढं तत्समस्तं समं समम् । भूनागचूर्णयुक्तायां मूषायां सनिवेशयेत् ॥ तदूर्ध्व भूलताचूर्ण दत्त्वा रुद्धाऽथ मुद्रयेत् । गर्तान्तर्गोमयं सान्द्रं क्षिप्त्वा मूषां निवेशयेत् ॥ पादमग्नां तु तां गर्ने करीषतुषवह्निना । पुटे पचेद्दिनैकं तु समुद्धल्याथ दापयेत् ॥ ऊर्ध्वाधो भूलताचूर्ण दत्त्वा तद्वत्पुटे पचेत् । मासमात्रमिदं कुर्याद्भवेदग्निसहो रसः ॥ जायते
__१ 'गन्धकासीसटङ्कणम्' इति पा० । २ 'कासीसं च' इति पा० । ३ 'शोषयेत्' इति पा०। ४ 'दग्निमुखो' इति पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com