SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ५६ रसपद्धतिः। मूर्तिवद्धश्च राक्षसो वडवामुखः । प्रसते सर्वलोहानि सत्त्वानि विविधानि च ॥ वज्रादिसर्वरत्नानि द्रुतानि च मृतानि च । गुह्यसूतो ह्ययं ख्यातो वक्ष्यते तस्य जारणम् ॥ अस्यैव षोडशांशेन दत्त्वा भूनागसत्त्वकम् । तद्वत्खल्वे दिनं मर्य ततो सिद्धबिडान्वितम् ॥ भूनागतैललिप्तायां मूषायां सन्निवेशयेत् । रुवा खेयं करीषाग्नौ जीर्णे सत्त्वे तु पूर्ववत् ॥ दत्त्वा मद्य तप्तखल्वे बिडो देयो दशांशतः । पूर्ववैलिप्तमूषायां जारयेत्स्वेदनेन वै ॥ एवं सत्त्वं समं जार्य पूर्ववत्कच्छपेन वा । गर्भद्रावणबीजं वा पूर्ववत्षड्गुणं शनैः ॥ जारयेद्रावितं गर्भे मूषायन्त्रे तु पूर्ववत् । ततस्तु रस्त्रकं बीजं जार्यमस्यैव षड्गुणम् ॥ ततस्तु पक्कबीजेन सप्तशृङ्खखिलाक्रमात् । जारणं सारणं कुर्यान्मुखं बद्धा च वेधयेत् ॥ अनेन कोटिभागेन चन्द्राकै काञ्चनं भवेत् । शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् ॥ द्रवं च ब्रह्मपुष्पाणां विष्णुकान्ताद्रवं तथा। इष्टिकागर्भमध्ये तु संशुद्धं पारदं क्षिपेत् ॥ मुखं खच्छेन वस्त्रेण छादयेत्तस्य पृष्टतः। दशांशं पूर्वगन्धं तु दत्त्वा श्रावेण रोधयेत् ।। पृष्ठे लघुपुटो देयो जीर्णे गन्धं पुनः क्षिपेत् । तद्वज्जार्य पुटेनैव पुनर्देयं तु गन्धकम् ॥ एवं जार्य समं गन्धं ततो यन्त्रात्समुद्धरेत् । अथवा गन्धकं तुल्यं तुलायत्रे रसस्य तु ॥ जारयेत्पूर्वयोगेन काचकूप्यन्तरेऽपि वा” इति । “अथ वक्ष्ये रसेन्द्रस्य वासितस्य मुखक्रमम् । येन व्योमादि वैज्रान्तं चरत्याश्वभिषेचितम् ॥ अम्लवेतसजम्बीरबीजपूरकभूखगैः । त्रिदिनं मर्दयेत्सूतं भूनागैश्च दिनत्रयम् ॥ तप्तखल्वे दृढं मर्थ सूतस्येत्थं मुखं भवेत् । वंशनाले घृतं सूतं भाण्डे गोमूत्रपूरिते । त्रिसप्ताहं पचेखुल्यां सूतस्येत्थं मुखं भवेत्” इति । मतान्तरम्-“मध्ये गर्तसमायुक्तं कारयेदि. ष्टिकाद्वयम् । धान्यानं गन्धकं शुद्धं प्रत्येकं दशनिष्ककम् । मासं जम्बीरज वैर्मर्य तेनैव लेपयेत् ॥ गर्तद्वयं समांशेन ह्यधोगते सुशोधितम् । विंशनिष्कं क्षिपेत्सूतं मूर्ध्नि देयाऽपरेष्टिका ॥ लिप्वा मृलवणैः संधि दीपाग्निं ज्वालयेदधः। अविच्छिन्नं दिवारात्रौ यावत्सप्तदिनावधि ॥ खाङ्गशीतं समुद्धृत्य रसं किट्टविसर्जितम् । इत्येवं तु त्रिधा कुर्याद्रसस्येत्थं मुखं भवेत्" इति मुखकरणम्। योगान्तरमाह-शीलेत्यादि । चणकाम्लं चणकक्षारः । बीजं पक्कबीजम् । गर्भद्रावणबीजम्य योगान्तरमाह-अपामार्गेत्यादि । कांक्षिका सौराष्ट्री, मूषाऽत्र गर्भद्रावणमूषा पूर्वमुक्ता, अनेन प्रकाशिता वा । अथ गुह्यसूतं वक्तुं भूनागतैलादिकमाह-सौवीरकान्तपाषाणमित्यादि । अभ्रसत्त्वप्रकारस्तु पूर्वमुक्तः। द्वितीयं योगान्तरमाह-दिनं भूनागमित्यादि । पातालयन्त्रं च यन्त्रप्रकरणे द्रष्टव्यम् । द्वितीयं तैलप्रकारमाह-भूलतेत्यादि । सत्त्वप्रकारान्तरमाह-भूलता कान्तपाषाणमित्यादि । अग्निसहकरणमाह-तप्तखल्वे इत्यादि । वडवामुख इत्यन्तेन स्पष्टखात्पूर्वमुक्तवाच स्पष्टम् । गुह्यमित्येतस्य नाम १ 'तप्तखल्वे' इति पा०। २ 'भूगर्तायां' इति पा०। ३ पूर्ववच्चापि' इति पा। ४ 'व्योमादिकं सत्त्वं' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy