SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः 1:1 ५७ सुबुद्धिमिर्ज्ञेयम् । अस्यैव बीजचारणजारणमाह - अस्यैव षोडशांशेनेत्यादि । सप्तशृङ्खलिकाचारणजारणसारणादिभेदेन तस्य फलमाह --- जारणं सारणं कुर्यादिति । स्वर्णनागं समावयैत्यत्र व्याख्यानं प्रकाशितं ' स्पष्टत्वाच्च सुबुद्धिभिर्ज्ञेयम् । शाक क्षेत्यादि काचकुप्यन्तं स्पष्टं प्रकाशितं च । गन्धकवासितस्याभ्रकजारणार्थं मुखकरणमाह--अथ वक्ष्ये इत्यादि मुखं भवेदित्यन्तेन । मुखार्थं सिद्धयोगमाहवंशनाले धृतमित्यारभ्य सूतस्येत्थं मुखं भवेदित्यन्तेन । त्रिसप्ताह मेकविंशति दिनपर्यन्तमनवच्छिन्नं, रेन्ध्राणं तु सिक्थकेन जलमृत्तिकया वा । मतान्तरेण मुखकरणमाह-मध्ये गर्तभित्यारभ्य मुखं भवेदित्यन्तम् ॥ ८० ॥ प्रकारान्तरमाह स्थलीय विधानतश्च मसृणां गन्धस्य संचारणां यत्रे गर्भसमुद्भवेऽथ सिकताहंसे तु कूप्यां पुनः । यत्रे सैकत संभवे च नलिकाय हि मूषाभिधे भूधरसंज्ञके त्वथ पुनः सोमानले चक्रके ॥ ८१ ॥ यत्रे नाभिसुसंज्ञके जलसमुद्भूते हढे लोहजे स्ते मूषिकया कृते सुविमले विद्याधरे डामरे । स्थालीयत्रवरे तु धूपनविधौ धूपाभिधे पालिका गन्धकारणां सुविमले कुर्याद्यथायोग्यतः ॥ ८२ ॥ टी० – इति स्पष्टम् । रसवाग्भट्टे तु गन्धकजारणार्थं यन्त्रान्तराण्युक्तानि, तान्यत्र लिख्यन्ते, “ र सोनकवसां भाण्डे यत्नतो वस्त्रगालिताम् | दापयेत्प्रचुरं यत्नादालाव्य रसगन्धकौ ॥ स्थालिकायां पिधायोर्ध्व स्थालीमन्यां दृढां कुरु । संन्धि विलेपयेयनान्मृदा वस्त्रेण चैव हि ॥ स्थाल्यन्तरे कपोताख्यं पुटं कर्षाभिना सदा । यन्त्रस्याधः करीषाग्निं दद्यात्तीत्राग्निमेव वा ॥ एवं द्वित्रिदिनं कुर्यात्ततो यत्रं विमोचयेत् । तप्तोदके तप्तचुहयां न कुर्याच्छीतले क्रियाम् । न तत्र क्षीयते सूतो न च गच्छति कुत्रचित् । अनेन च क्रमेणैव कुर्यादन्धकजारणम्" - इति । अत्र रसोनकवसा कन्दान्तर्वत्यङ्कुरविशेष इति केचित्, अथवा तत्परित्यज्य उपरिभागः सर्वैर्गृह्यते । तस्य शुष्कताकरणार्थं यत्नादित्युक्तम् । रसगन्धकयोर्भावनं, चक्रिकां कृत्वा ऊर्ध्वाधचूर्णं दत्त्वा निरोधयेत् । तदुपरि ऊर्ध्वमुखामेकां स्थालीं दद्यात् । तत्र संघिलेपानन्तरं स्थालीमध्ये पुढं दद्यात् । अन्यच्च स्पष्टम् । स्थालीयन्त्रं प्रकारान्तरेगाह — “गर्भयन्त्रं प्रवक्ष्यामि पिष्टिकाभस्मकारकम् । चतुरङ्गुलदीर्घा तु त्र्यङ्गुलो १ 'रसमुद्रणं तु' इति पाठः । २ 'गुह्ये' इति पाठः । ३ 'भद्रे' 'भद्रां' इति च पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy