________________
५८
रसपद्धतिः।
मितविस्तराम् । मृन्मयीं सुदृढां मूषां वर्तुलं कारयेन्मुखम् । लोहस्य विंशतिर्भागा भाग एकस्तु गुग्गुलोः ॥ सुश्लक्ष्णं पेषयित्वा तु वारंवारं प्रयत्नतः । मूषालेपं दृढं कृत्वा लवणार्धमृदम्बुभिः ॥ कषैस्तुषाग्निना भूमौ स्वेदयेन्मृदु मानवित् । अ. होरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत्” इति ॥ ८१ ॥ ८२ ॥ रससिन्दूरप्रकारमाहसूतं पञ्चपलं सपादपलकं गन्धं च टङ्कद्वयं चुल्लीलोणमथो विमर्य सकलं काश्यास्तु कर्ष पुनः । यद्वा गन्धसमं तदर्धमथवा यन्त्रे दृढे शाकरे कूप्यां घरचतुष्टयं रसवरः सिन्दूरतुल्यो भवेत् ।। ८३॥ ग्रन्थान्तरस्थाः प्रकारा अत्रैव लिख्यन्ते,-"खर्परं सिकतापूर्ण कृत्वा तस्योपरि न्यसेत् । अपरं खर्परं तत्र शनैर्मदग्निना पचेत् ॥ पञ्चक्षारैस्तथा मूत्रैर्लवणं च बिडं तथा । हंसपाकं समाख्यातं यन्त्रं तद्वार्तिकोत्तमैः' इति । “सरसां गूढवक्रां मृद्वस्त्राङ्गुलघनावृताम् । शोषितां काचकलसीं पूरयेत्रिषु भागयोः ॥ भाण्डे वितस्तिगम्भीरे वालुकासु प्रतिष्ठिते । भाण्डं तु पूरयेत्ताभिरन्याभिरवगुण्ठयेत् ॥ भाण्डवक्त्रं मणिकया संधि लिम्पेन्मृदा पचेत् । चुट्टयां तृणस्य चादाहान्माणिकापृष्ठवर्तिनः ॥ एतद्धि वालुकायत्रं तद्वत्तु लवणाश्रयम्" इति । पूर्वत्र अन्धमूव ग्राह्या। तुषपुट तु प्रागभिहितम् । भूमावित्यनेन भूधरयन्त्रमेव गृह्यते । अथवा,-"शरावसंपुटस्थं तु करीरैरग्निमानवित् । पचेत्तु चुहृयां यामं वा रसं तत्पुटयन्त्रकम्" इति । इदं पुटयन्त्रकं तु ताम्रादिसाधने न तु रसभस्मादौ । वालुकायन्त्रे कूपी मृत्तिकया दृढाऽग्निसहा कार्या । उक्तं च,-"श्वेताश्मानस्तुषा दग्धाः शिखित्राः शणखर्परौ । लदिः किटं कृष्णमृच्च संयोज्याः कूपिकामृदि"-इति । अथवा कौलाली ग्राह्या । तुषमेकं भागं श्वेतमृत्तिकैकभागां कृष्णमृत्तिकैकभागां वस्त्रखण्डमेकभागं कुट्टयित्वा लेपः कार्यः । वस्त्रखण्डानि तु संप्रदायात्सप्तैव । एवं वालुकायन्त्रस्यापि मृत्कपंटादि, मध्ये छिद्रं च कार्यम् । वालुका पञ्चाढकप्रमाणा देया । एवं लवणयन्त्रे परिमाणं कर्तव्यता च ज्ञेया । गन्धकजारणार्थ पलिकायन्त्रं, तच्च-"चषकं वर्तुलं लौहं विनतापोर्ध्वदण्डकम् । एतद्धि पालिकायन्त्रं बलिजारणहेतवे"-इति । एतच्च दीपाग्निना घटिकामात्रेण कृष्णरसभस्मकरणे । तत्र लोहपाने गन्धक द्रावयित्वा पारदो देयः, पश्चाल्लोहदण्डेन एकीकृत्य करणीयम् । तदुक्तं कैश्चित् ,"सूतः पञ्चपलः स्वदोषरहितस्तत्तुल्यभागो बलिद्वौ टकौ नवसागरस्य तुवरीकर्षश्च संमर्दितः। कूपे काचकृते स्थितश्च सिकतायन्त्रे त्रिभिर्वासरैः पक्को वह्निमिरुद्भवत्यरुणभाः सिन्दूरनामा रसः” इति । रसराजलक्ष्म्यां तु-"कूपी सप्तमृदंशुकैः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com