________________
रसपद्धतिः ।
परिवृता शुष्काऽत्र गन्धेश्वरौ तुल्यांशौ नवसारपादकलितौ संमर्थ यामं न्यसेत् । सा यन्त्रे सिकताख्यके तलबिले पक्काऽर्कयामं हिमं भित्वा कुङ्कुमपिजरं रसवरं भस्माददेवैद्यराट् ॥ पाके रुद्धं मुखं कूप्या नवसारेण जायते । ततः शलाकया कु. त्कूिपिकानाशशान्तये ॥ अनेन विधिना पाका यावन्तोऽस्य भवन्ति हि । तावन्तो हि गुणोत्कर्षा जायन्ते रसभस्मनः" इति । केचित्तु-"भागो रसस्य त्रय एव भागा गन्धस्य माषः पवनाशनस्य । संमद्य गाढं सकलं सुभाण्डे तां कजली काचकृते विध्यात् ॥ संरुध्य मृत्कर्पटकैघंटी तां मुखे सचूर्णा खटिकां च दद्यात् । क्रमाग्निना त्रीणि दिनानि पक्त्वा तां वालुकायत्रगतां ततः स्यात् ॥ बन्धूकपुष्पारुणमीशजस्य भस्म प्रयोज्यं सकलामयेषु । निजानुपानैमरणं जरां च हन्त्यस्य वल्लः क्रमसेवनेन” इति । पूर्वत्र पादांशो नवसागर इत्युक्तं, इह तु संप्रदायात् गद्याणत्रयस्य माषो नवसार इति गद्याणमात्रं पारदः, गद्याणत्रयं गन्धकः, एकस्तु माषो नवसागर इति श्लोकार्थ, इति न विरोधः । केचन पवनाशनशब्देन सीसकं व्याचक्षते, तत्तु धातुवादादावुपयुज्यत इति ज्ञेयम् । अत एव वृद्धाः भागशब्दः कर्षवाची, अर्धपलं शुद्धरसं, कर्षत्रितयं विशुद्धगन्धस्य, सीसकमाष मिति वचनात् ; पारदगन्धकं समभागं अर्ध वा गन्धकं चतुर्थाशं वा दत्त्वा कजली कुर्वन्ति । मेघनादपादास्तु गन्धक एकभागः, रसोऽप्येकभागः, पादभागस्तु हरितालः, तथैव मनःशिला, एतेषां कजली कूपिकायां प्रयच्छन्ति, तन्मध्ये सोमलक्षारं तोलके माषमात्रं प्रयच्छन्ति, अन्यत्पूर्ववत् । पाके तु प्रथमतो गन्धकं खपरे द्रावयित्वा, तन्मध्ये रसं दत्त्वा, लोहदण्डेन चालयित्वा, यावत्तलक्षयो भवति तावत्पाकः, पश्चात्खल्वे मर्दनं कृत्वा, कूपिकामध्ये प्रयच्छन्ति । कूपिकामुखे तु यदा गन्धकक्षयो भवति तदा शलाकया निष्काश्य घर्षणे आरुग्योत्पत्ती मुद्रा कार्येति वदन्ति । अन्ये तु मुद्रामदत्त्वैव रसभस्म संपादयन्ति, अपरे तु संप्रदायात्कूपिकामुखं चक्रिकया पिधाय कुर्वन्ति । इत्यादिप्रकाराः संप्रदायाज्ञयाः ॥ ८३ ॥ रसकर्पूरप्रकारस्तुकासीसं खटिका च सिन्धुलवणं क्षुण्णं त्रिभागं रसान्मर्च शुष्कमिदं दिनं मृदुतरं विद्याधरे वह्निना । तामेणोलविलग्नशङ्खधवलं संगृह्य कूप्यां न्यसेकासीसं लवणं च तुल्यमभितो दद्यात्पचेत्पूर्ववत् ॥ ८४॥ यद्वोन्मत्तककाकमाचिकरसैव्याघ्रीरसैः पूर्ववत्पाच्यं डामरयत्रके लवणयुक्कूप्यां च तद्वन्यसेत् ।
१ 'तस्यां' इति पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com