________________
५४
रसपद्धतिः।
सर्वेषां खलु सत्त्वकं मृदुतरं तप्तं दिनैकं पुनगर्भद्रावकसंयुतं विमृदितं जातद्रवं पूर्ववत् । मूषायां सुविपाचितं पुनरिदं सत्त्वे सुजीर्णे पुनदेयं पाच्यमनेकशो द्रुततरं द्रावं सुपक्कं वसु ॥ ७६ ॥ मात्रापाकविडप्रयोगमखिलं पूर्वक्रमेणैव त. चार्य जार्यमनेकशः पुनरिदं सायं च जार्य क्रमात् । एवं क्रामणशोधनं च बहुशः कृत्वाऽथ तारे लवं दत्त्वा स्वर्णचयं सहस्रगुणितं कुर्याद्यथेष्टं भिषक् ॥ ७७ ॥ यद्वा भूफणिसत्त्वतैलममलं भूनागचूर्णैर्युतं । मूषां वज्रमृदा विधाय तदधो निक्षिप्य सूतस्य हि । दत्त्वा चोर्ध्वमधो निरुध्य सकलां काचेन टङ्केन वा पाच्या भूधरयत्रगा तुषकरीपानौ तु पत्रं पुनः ।। ७८ ॥ एवं मासयुगं क्रमेण रचितो बद्धश्च रक्षःसमो वह्नौ तिष्ठति लोहसत्त्वममलं भुङ्क्ते दवाग्निर्यथा । कुर्यात्पूर्ववदेव जारणविधि बन्धं च संक्रामणं वेधं पूर्ववदेव कोटिगुणितं चन्द्रार्कयोः काञ्चनम् ॥ ७९ ॥ टी०-द्वन्द्वप्रकारास्तु प्रागुक्ताः । महारसादिसत्त्वप्रकाराः पूर्व निरूपिताः । अन्यत्स्पष्टम् । गर्भद्रावकयोगस्तु वक्ष्यते । भूनागसत्त्वतैलप्रकारस्तु रसरत्नाकरोक्तो वक्ष्यते । मूषायां रसस्योर्ध्वाधः चूर्ण दत्त्वा काचेन मुखमुद्रां कृत्वा भूधरे पचेत् । अन्यपूर्ववदेव कार्य मित्याह--कुर्यादिति ॥ ७५-७९ ॥
एवं गन्धकयोगतोऽपि सुमुखं कृत्वा ताँ वाऽभ्रकं गौरीयत्रविधानतोऽपि सुमुखं पश्चात्तु धान्याभ्रकम् । सत्त्वं बीजमनेकयत्रविधिना सोमानले वा पुनश्चक्रे नाभिसमुद्भवे त्वनुदिनं कुर्वीत येत्नं पुनः ॥ ८॥ पुनर्गन्धकयोगेन मुखकरणमाह-एवमिति । गन्धकप्रयोगेण समुखत्वं कार्यम् । तथा गौरीयन्त्रविधानतो धान्याभ्रकं चारयित्वा सुमुखः कार्यः । पश्चाद्धान्याभ्रकादि
१ 'तु विमृतं' इति पा०। २ जीर्णे' इति पा० । ३ 'वज्रमुखां' इति पा०। ४ 'यथा' चाभ्रक' इति पा०। ५ 'यत्रं' इति पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com