________________
रसपद्धतिः ।
५३
जारयेत् षड्गुणं गन्धं तुलायन्त्रेण पूर्ववत् ॥ तिक्तकोशातकीद्रावं लागलीद्रावसंयुतम् । दापयेत्पूर्ववत्सूतं खल्वे मद्य दिनावधि ॥ पादांशं पक्वबीजं च चारयित्वाऽथ जारयेत् । मुखं वडा रसं वद्धवा क्रामणेन समन्वितम् ॥ तारे वेधं शतांशेन दापयेत्काञ्चनं भवेत् । तस्याप्टानवतिभागाः स्वर्णस्यापि च भागकम् ॥ भागैकं वेधकस्येति सर्वत्र विहितः क्रमः । अथ शुद्धस्य सूतस्य जारयेत्पूर्वभावितम् । गन्धकं तु तुलायन्त्रे पश्चात्सर्वं पलं पलम् । मूषा नालान्विता ऊलवका स्याद्वादशाङ्गुला ॥ दृढा लोहमयी कार्या वनया सदृशी परा । एकस्यां निक्षिपेत्सूतमन्यस्यां गन्धक समम् ॥ एकस्या मुखमध्ये तु ह्यपरस्या मुखं क्षिपेत् । लिप्त्वा मृलवणैः सार्ध गन्धकोवं पुटं लघु ॥ रसस्याधो जलं स्थाप्यं धूमं गन्धं पिबत्यलम् । जीर्णे गन्धे समुद्घाट्य तुल्यगन्धं च दापयेत् ॥ इत्येवं षोडशगुणं गन्धं जार्य पुनः पुनः । जायते सूतराजोऽयं वासनामुखितो भवेत्” इति मुखकरणम् । “व्योमसत्त्वं ताप्यसत्त्वं शुल्वं शुद्धं समं समम् । आवर्ल्स द्वन्द्वलिप्तायां मूषायामथ चूर्णयेत् ॥ भावयेदभिषेकेण पूर्ववच्छतवारकम् । पूर्ववचारयेदेतद्वासनामुखिते रसे ॥ तावज्जार्य प्रयत्नेन यावद्भवति षड्गुणम् । तत्सूते सारितं जार्य सिद्धबीजं तु पूर्ववत् ॥ मुखबन्धं बन्धनं च कृत्वा वेधं प्रदापयेत् । क्रामणेन समायुक्तं चन्द्रार्क काञ्चनं भवेत् ॥ सहस्रांशेन तत्सत्यं रसोऽयं कामरूपकः--"इति । अथवा-“शतनिष्कं शुद्धसूतं दशनिष्कं तु गन्धकम् । श्लक्ष्णं कन्याद्रवैर्मद्य पाचनायन्त्रके पचेत् ॥ ऊर्ध्वलनं समादाय गन्धकं शतनिष्ककम् । दत्त्वा मर्च पुनस्तद्वद्यत्रे पाच्यं तु भूधरे । एवं पुनः पुनः कुर्यादेकविंशतिवारकम् । गौरीयन्त्रे तु ततं सूतं क्षिप्त्वा देयं तु गन्धकम् ॥ भावितं पूर्वयोगेन विंशत्यंशेन चूर्णितम् । रुद्धवा लघुपुटे पाच्यं जीर्णे गन्धं प्रदापयेत् ॥ एवं पुनः पुनर्जायं यथाशक्ति क्रमेण वै । जीर्णे शतगुणे गन्धे शतवेधी भवेद्रसः ॥ सहस्रगुणिते जीर्णे सहस्रांशेन वेधयेत् । सारयेत्पक्कबीजेन पूर्ववजारयेत्क्रमात् ॥ मुखं बद्धा रसं बद्ध्वा ततो वेधं प्रदापयेत् । जायते कनकं दिव्यं देवाभरणमुत्तमम्" इति ॥ ६९-७४ ॥ हिडलोत्थितसूतस्य संस्कारेण क्रमवेधमाहहिङ्गलोत्थमथो रसेन्द्रममलं संस्खेदितं सप्तधा भूनागैः सह मर्दितं दृढतरं खल्वे तु तप्ते ततः । पात्यं चोर्ध्वविलनमाहृतरसं पादांशतो द्वन्द्वितं व्योम्नः सत्त्वमतस्तु माक्षिकभवं पादांशतो जारयेत् ॥७५॥
१ दश० पा०।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com