Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः ।
४१
अथवा क्षाराम्लपिष्टां शिलां मूषायां दत्त्वा, ध्माता सत्त्वं मुञ्चेत् । गन्धाश्मगैरिककासीसेत्याधुक्तवाद्नैरिकादि निरूप्यते । गैरिकं द्विविधं-सुवर्णगैरिकं पाषाणगैरिकं च; हिध्मावमिविषनेत्ररोगादिन्नं, तस्य सत्त्वरूपत्वान्न सत्त्वपातनम् । कासीसं द्विविचं-वालुकाकासीसं पुष्पकासीसं च; पूर्व गुणवत् ; भृङ्गराजरसेन शुद्धं भवति; आमं श्वित्रादिरोगग्नं, शुद्ध नेत्ररोगघ्नं; त्रिफलाघृतक्षौद्राभ्यां सेवितं शाणमितं रसायनं भवति । अथ तुवरी-सा द्विधा-फुल्लतुवरी तुवरी च; कालिके खिन्ना शुद्धिं प्राप्नोति; क्षाराम्लैमर्दिता ध्माता सती सत्त्वं मुञ्चति; गोपित्तेन शतवारं भाविता ध्माता सत्त्वं मुञ्चति, तच्च क्रामणं भवति । अथाजनानि-तदुक्तम्-“सौवीरमअनं प्रोक्तं रसाञ्जनमतः परम् । स्रोतोऽञ्जनं तदन्यच्च पुष्पाजनकमेव च । नीलाजनं च तेषां हि स्वरूपमिह वर्ण्यते”-इति । आद्यं धूम्रवर्ण, द्वितीयं पीताभ, तृतीयमीषत्कृष्णं भङ्गे भासुरं च, चतुर्थ श्वेतं स्निग्धं च, पञ्चमं नीलवर्ण स्निग्धं गुरु च । एतानि तत्तत्रदीषु तत्तत्पर्वतेषु जायन्ते। रसाञ्जनं तु-"दार्वीक्वाथमजाक्षीरपादं पक्वं यदा घनम्। तदा रसाजनं ख्यातं नेत्रयोस्तत्प्रयोजयेत्”-इति । केचित्खपरदाक्विाथोद्भवं तुत्थं रसाजनं, वल्मीकमृत्तिकाकारं घृष्टं गैरिकवत् भङ्गे नीलं स्रोतोऽजनमिति केचित् ,रीतिविट पुष्पाञ्जनमित्यन्ये । सर्वाणि नेत्र्याणि, विषघ्नानि, हिध्मानानि च ज्ञेयानि । सर्वेषां शुद्धिस्तु भृङ्गराजरसैः, मनःशिलावत्सत्त्वं कार्यम् । स्रोतोञ्जनस्य गोमूत्रादौ शोधितस्य धृतक्षौद्रवसाभिर्भावितस्य रजसा मर्दिते भाविते पारदोऽ| भवति, अग्निसहश्च । राजावर्तवत्सत्त्वं ग्राह्यम् । हिमाचलप्रदेशे कष्टं भवति; तद्विविधं-नालिकाख्यं रेणुकं चेति; पीतप्रभं पूर्व, द्वितीयं श्यामपीतमिति; केचित्सद्योजातस्य हस्तिनो वर्च इतिः अपरे सद्योजातस्य तेजिवाहस्य नालं, तदपि तद्वर्ण भवतीति वदन्ति । कङ्कुष्टं शुण्ठ्यम्वुभावितं शुद्धं भवति । सत्त्वरूपं विरेचकं च । “बब्बूलकोलिकाकाथजीरसौभाग्यटङ्कणम् । कष्टविषनाशाय भूयो भूयः पिबेन्नरः-" इति कङ्कुष्टम् । अथ साधारणरसाः-कम्पिल्लकः सौराष्ट्रदेशोत्पन्न इष्टिकाचूर्णवत् , किंचित्सवह्निकः, विरेचनः कृमिहारी च; 'कमेला' इति लोके । अथ गौरीपापाणः-पीतः सोमलः, शङ्खश्वेतस्फटिकाभो, दाडिमाभश्च । अन्त्यौ द्वौ कृत्रिमौ, पूर्वोऽचलोत्पन्नः । अथ नवसादरः-इष्टिकादहने पाण्डुरलवणं सूकरविष्ठामनुष्यविष्ठान्तः संभवति, स चुल्लिकालवणाभिधः 'नवसागर' इति ज्ञेयः; रसेन्द्रजारणद्रावणमुखकरणशङ्खद्रावादावुपयुज्यते । बिडाख्यलवणमपि तथाविधं भवति । अथ वराटिका-पीतवर्णा ग्रन्थिला पृष्ठे उन्नता सार्धनिष्कभारा श्रेष्ठा, तदन्या न्यूना, चराचरसंज्ञिका ज्ञेयाः शोधनं तके काञ्जिके निम्बुरसे च; रसेन्द्रजारणे उपयुज्यते बिडेषु, परिणामादिशूलनी च। वराटिकाः श्वेतपीतभासोऽल्पाः, तदन्ये तु वराटास्ते च गुरवो हीनाश्च । अधाग्निजारः--समुद्रतीरेऽग्निनक्रस्य जरायुः शुष्क अग्निजारः; स बिडादौ जारणे चोपयुज्यते, तस्य शुद्धिर्नास्तीति ज्ञेयमापर्वते पाषाणजोऽल्पीयो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
___www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144