SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः । ४१ अथवा क्षाराम्लपिष्टां शिलां मूषायां दत्त्वा, ध्माता सत्त्वं मुञ्चेत् । गन्धाश्मगैरिककासीसेत्याधुक्तवाद्नैरिकादि निरूप्यते । गैरिकं द्विविधं-सुवर्णगैरिकं पाषाणगैरिकं च; हिध्मावमिविषनेत्ररोगादिन्नं, तस्य सत्त्वरूपत्वान्न सत्त्वपातनम् । कासीसं द्विविचं-वालुकाकासीसं पुष्पकासीसं च; पूर्व गुणवत् ; भृङ्गराजरसेन शुद्धं भवति; आमं श्वित्रादिरोगग्नं, शुद्ध नेत्ररोगघ्नं; त्रिफलाघृतक्षौद्राभ्यां सेवितं शाणमितं रसायनं भवति । अथ तुवरी-सा द्विधा-फुल्लतुवरी तुवरी च; कालिके खिन्ना शुद्धिं प्राप्नोति; क्षाराम्लैमर्दिता ध्माता सती सत्त्वं मुञ्चति; गोपित्तेन शतवारं भाविता ध्माता सत्त्वं मुञ्चति, तच्च क्रामणं भवति । अथाजनानि-तदुक्तम्-“सौवीरमअनं प्रोक्तं रसाञ्जनमतः परम् । स्रोतोऽञ्जनं तदन्यच्च पुष्पाजनकमेव च । नीलाजनं च तेषां हि स्वरूपमिह वर्ण्यते”-इति । आद्यं धूम्रवर्ण, द्वितीयं पीताभ, तृतीयमीषत्कृष्णं भङ्गे भासुरं च, चतुर्थ श्वेतं स्निग्धं च, पञ्चमं नीलवर्ण स्निग्धं गुरु च । एतानि तत्तत्रदीषु तत्तत्पर्वतेषु जायन्ते। रसाञ्जनं तु-"दार्वीक्वाथमजाक्षीरपादं पक्वं यदा घनम्। तदा रसाजनं ख्यातं नेत्रयोस्तत्प्रयोजयेत्”-इति । केचित्खपरदाक्विाथोद्भवं तुत्थं रसाजनं, वल्मीकमृत्तिकाकारं घृष्टं गैरिकवत् भङ्गे नीलं स्रोतोऽजनमिति केचित् ,रीतिविट पुष्पाञ्जनमित्यन्ये । सर्वाणि नेत्र्याणि, विषघ्नानि, हिध्मानानि च ज्ञेयानि । सर्वेषां शुद्धिस्तु भृङ्गराजरसैः, मनःशिलावत्सत्त्वं कार्यम् । स्रोतोञ्जनस्य गोमूत्रादौ शोधितस्य धृतक्षौद्रवसाभिर्भावितस्य रजसा मर्दिते भाविते पारदोऽ| भवति, अग्निसहश्च । राजावर्तवत्सत्त्वं ग्राह्यम् । हिमाचलप्रदेशे कष्टं भवति; तद्विविधं-नालिकाख्यं रेणुकं चेति; पीतप्रभं पूर्व, द्वितीयं श्यामपीतमिति; केचित्सद्योजातस्य हस्तिनो वर्च इतिः अपरे सद्योजातस्य तेजिवाहस्य नालं, तदपि तद्वर्ण भवतीति वदन्ति । कङ्कुष्टं शुण्ठ्यम्वुभावितं शुद्धं भवति । सत्त्वरूपं विरेचकं च । “बब्बूलकोलिकाकाथजीरसौभाग्यटङ्कणम् । कष्टविषनाशाय भूयो भूयः पिबेन्नरः-" इति कङ्कुष्टम् । अथ साधारणरसाः-कम्पिल्लकः सौराष्ट्रदेशोत्पन्न इष्टिकाचूर्णवत् , किंचित्सवह्निकः, विरेचनः कृमिहारी च; 'कमेला' इति लोके । अथ गौरीपापाणः-पीतः सोमलः, शङ्खश्वेतस्फटिकाभो, दाडिमाभश्च । अन्त्यौ द्वौ कृत्रिमौ, पूर्वोऽचलोत्पन्नः । अथ नवसादरः-इष्टिकादहने पाण्डुरलवणं सूकरविष्ठामनुष्यविष्ठान्तः संभवति, स चुल्लिकालवणाभिधः 'नवसागर' इति ज्ञेयः; रसेन्द्रजारणद्रावणमुखकरणशङ्खद्रावादावुपयुज्यते । बिडाख्यलवणमपि तथाविधं भवति । अथ वराटिका-पीतवर्णा ग्रन्थिला पृष्ठे उन्नता सार्धनिष्कभारा श्रेष्ठा, तदन्या न्यूना, चराचरसंज्ञिका ज्ञेयाः शोधनं तके काञ्जिके निम्बुरसे च; रसेन्द्रजारणे उपयुज्यते बिडेषु, परिणामादिशूलनी च। वराटिकाः श्वेतपीतभासोऽल्पाः, तदन्ये तु वराटास्ते च गुरवो हीनाश्च । अधाग्निजारः--समुद्रतीरेऽग्निनक्रस्य जरायुः शुष्क अग्निजारः; स बिडादौ जारणे चोपयुज्यते, तस्य शुद्धिर्नास्तीति ज्ञेयमापर्वते पाषाणजोऽल्पीयो Shree Sudharmaswami Gyanbhandar-Umara, Surat ___www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy