________________
४२
रसपद्धतिः ।
हिङ्गुलतुल्यो भवति तगिरिसिन्दूरं, रसबन्धादौ हितं धातुवादे नेत्ररोगघ्नं च । अथ हिङ्गुलः - हिङ्गुलो द्विविधः - शुकतुण्डो हंसपादश्च । तत्र प्रथमोऽल्पगुणः, तस्य नाम 'वर्मा' इति द्वितीयस्तु श्वेतरेखः प्रवालतुल्यः सर्वदोषघ्नो दीपनादिगुणश्च; एतस्मान्निष्कासितो रसः षड्गुणजीर्णगन्धकतुल्यगुणः । आर्द्रकलकुचद्रावाभ्यां भावितः शोषितश्च शुद्धो भवति । पातनायन्त्रेण पातितश्च सूतसंकाशं सत्त्वं मुञ्चति । अयं मेषीक्षीरेण भावितोऽम्लवर्णैश्च बहुशो भावितो हीनवर्णस्वर्णलेपितः कुङ्कुमप्रभस्वर्ण सूर्यपान करोति । अथ मृद्दारशृङ्गम् - तच्च द्विविधं - सदलं निर्दलं च; अत्र सदलं पीतवर्णं, निर्दलं कर्बुरं, अर्बुदगिरेः पार्श्वे गुर्जरमण्डले वर्तते । ततः सीसरूपं सत्त्वं भवति, पुरुष रोगघ्नं केशरजनं रसबन्धकं च । किंचामी "साधारणरसाः सर्वे मातुलुङ्गाकाम्बुना । त्रिवारं भाविताः शुष्का भवेयुर्दोषवर्जिताः ॥ यानि कानि च सत्त्वानि तानि शुध्यन्त्यशेषतः । ध्मातानि शुद्धिवर्गेण मिलन्ति च परस्परम्”–इति । “राजावर्तोऽप्युपरसः सरक्तो नीलिमाश्रितः” इति । गुरुः श्रेष्ठोऽन्यश्च हीनः: गन्धकमातुलुङ्गाम्लरसेनाईकरसेन च शुध्यति, पुटितो त्रियते च; अथ सत्त्वं मनःशिलाघृतेन मिश्रीकृत्यायसे पात्रे पाचयित्वा पश्चान्महिषीक्षीरेण सौभाग्यपञ्चकेन चैकीकृत्य पिण्डं कृत्वा खदिराङ्गारैर्ध्यातं सत्त्वं मुञ्चति । अनेनैव क्रमेण गैरिकस्यापि निष्कासनीयम् । अत एवोक्तम्, “सूर्यावर्तककदलीवन्ध्याः कोशातकीच सुरदाली । शिग्रुश्च वज्रकन्दो नीरकणा काकमाची च || आसामेकरसेन लवणक्षाराम्लभाविताः क्रमशः । शुध्यन्ति रसोरसा घ्याला मुञ्चन्ति सत्त्वानि ” - इति । रसरत्नाकरे तु सत्त्वप्रकारः - " मुस्ताकाथेन सप्ताहं कुर्याद्धान्याभ्रकं श्रुतम् । शिश्रुसूरणरम्भानां कन्दस्यैकस्य वा द्रवैः ॥ पिप्पलीमूलजम्बीरद्रवैर्वाऽथ परिप्लुतम्। इत्थंग्लुतस्याभ्रकस्य पादांशं टङ्कणं क्षिपेत् ॥ दिनैकं मर्दयेत्खत्वे युक्तमम्लेन केनचित्”इत्यशोधनम् । “गुञ्जोर्णागुग्गुलुर्लाक्षाराजी सर्जरसं गुडम् । क्षुद्रमीनयवक्षारकाचपिण्याकसूरणम् ॥ भूलतात्रिफला वह्निक्षीरकन्दं पुनर्नवाम् । धत्तूरलाङ्गलीपाठारक्तगन्धकसिक्थकम् || गोक्षुरं पञ्चलवणं सर्प च द्विमुखं मधु । षड्विन्दुक्षुद्रशम्बूकमस्थीनि शशकस्य च ॥ पारावतमलं त्र्यूषमिन्द्रगोपं सशियुकम् । गोधूमं सर्षपं तुल्यं छागीदुग्धेन मर्दयेत् ॥ एतव्यस्तं समस्तं वा याममात्रेण पिण्डितम् । अस्य पिण्डस्य भागैकं द्विभागं शोधिताम्रकम् । पञ्चमाहिषभागैकं सर्वमेकत्र कारयेत् ॥ कर्षांशा वटिकाः कार्याः किंचिच्छायाविशोषिताः । खदिराङ्गारसंयुक्ते कोष्टीयन्त्रे क्षिपन् क्षिपन् ॥ वटिकाः पञ्च पञ्चैव वङ्कनालेन संधमेत् । समाप्तौ किमादाय स्फोटयेत्स्वाङ्गशीतलम् || वर्तुलं सत्त्वमादाय शेषं कि विचूर्णयेत् । चूर्णादर्थं पूर्वपिण्डं तद्वन्माहिषपञ्चकम् ॥ एकीकृत्य धमेत्सर्वं तद्वत्सत्त्वं समाहरेत् । इत्येवं च पुनः कुर्यात्रिधा सत्त्वं विमुञ्चति ॥ अनेन क्रमयोगेन कान्तसस्यकमा
१ - ' वैक्रान्तं च समाक्षिकम्' इति पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com