________________
रसपद्धतिः ः ।
४३
क्षिकाः । कठिनोपरसाश्चान्ये शुद्धा भूनागमृत्तिका || मुञ्चन्ति सत्त्वसंघातं ग्राहयेत्तत्पृथक्पृथक् । अभ्रसत्त्वं समावर्त्य समांशं काचटङ्कणम् ॥ दत्त्वा दत्त्वा त्रिवारं तद्वज्रमूषागतं धमेत् । अम्लवर्गः नुहीपत्रं चिचाबीजं सवल्कलम् ॥ कल्कयेत्तत्र तत्सत्त्वं सप्तवारं निषेचयेत् | चन्द्रशुभ्रं भवेत्तद्धि हितं सूतस्य जारणे ॥ धान्याभ्रं दशभागं स्याच्छुद्धं नागं त्रिभागिकम् । टङ्कणं माक्षिकं सूतं भागेकं च सुशोधितम् ॥ ऊर्णास्वजियवक्षारं भागं भागं विमिश्रयेत् ॥ मर्य मूत्राम्लवर्गाभ्यां यथाप्राप्तं दिनावधि । अजापञ्चाङ्गसंयुक्तं पूर्ववत्सत्त्वपातनम् ॥ कृत्वाऽऽवोपमृदुं साक्षाद्योजयेन्निर्मलं बुधः । अश्वगोमहिषीणां च खुरशृङ्गं समाहरेत् ॥ तच्चूर्णावापमात्रेण अत्यन्तं मृदुतां व्रजेत्” – इत्यभ्रक सत्त्वम् । “पञ्चमूत्राम्लवर्णैश्च द्विसप्ताहं विभावयेत् । माक्षिकं तीव्रधर्मेण दिनमम्लैश्च मर्दयेत् ॥ मित्रपत्रक संयुक्तं वटीं कृत्वा धमेद्दृढम् । व्योमवद्वनालेन सत्त्वं शुल्बनिभं द्रवेत् ॥ विमलानां च शुद्धानां शस्यकस्याप्ययं विधिः "इति माक्षिकादिसत्त्वम्। " गोमांसैर्मातुलुङ्गाम्लैर्दिनं भाव्या मनःशिला । तां रक्तपीतपुष्पाणां रसैः पित्तैश्च भावयेत् ॥ दिनान्ते मर्दयेद्यामं मित्र पञ्चकसंयुताम् । गुलिकां काचकुप्यन्तः क्षित्त्वा तां काचकूपिकाम् ॥ सर्वतोऽङ्गुलमानेन वस्त्रमृत्तिकयादिहेत् । शुष्कां तां वालुकायन्त्रे शनैर्मृद्वग्निना पचेत् ॥ शुष्के द्रावे निरुध्याथ सम्यङ्मलवणैर्मुखम्। चण्डाग्निना पचेत्तावद्यावद्वादशयामकम् ॥ स्वाङ्गशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् । ऊर्ध्वलनं शिलासत्त्वं बालार्क किरणोपमम् " - इति शिलासत्त्वम् । “भागाः षोड्श तालस्य त्रिंशत्पारदटङ्कणात् । श्वेताभ्रवङ्गयोश्रूर्णं प्रतिभागं विमिश्रयेत् ॥ सर्वं स्स्रुगर्कपयसा मर्दयेद्दिवसद्वयम् । शिलावद्राहयेत्सत्त्वं तालकात्स्फटिकोपमम् ॥ तालकस्याष्टमांशेन देयं सृतं च टङ्कणम् । कूष्माण्डस्य रसैः स्रुह्याः क्षीरैर्मर्थं दिनद्वयम् ॥ तङ्गोल छिद्रमूषायां ग्राह्यं सत्त्वं च पूर्ववत् -" इति तालकसत्त्वम् । “तुत्थस्य टङ्कर्णं पादं मर्दयेन्मधुसर्पिषा । तुल्येन मिश्रितं ध्यातं कोष्टीयन्त्रे दृढाग्निना ॥ ध्मापितं द्रवते सत्त्वं कीरतुण्डसमप्रभम् - " इति तुत्थसत्त्वम् । “सौवीरं तीक्ष्णचूर्ण च मूषायामन्धयेत्समम् । हटादुमाते भवेत्सत्त्वं वरनागं तदुच्यते - " इति वरनागम् । “क्षाराम्ल स्नेहपित्तश्च क्रमाद्भाव्यं दिनं दिनम् ॥ पुष्पाणां रक्तयीतानां रसैर्भाव्यं दिनद्वयम् ॥ रसकं चूर्णयेत्पश्चादूर्णालाक्षाभयानिशाः । टङ्कणं गृहघूमं च भूनागं सप्तमं भवेत् ॥ एभिः समं तु तच्चूर्णमजाक्षीरेण मर्दयेत् । याममेतेन कल्केन लेप्या वार्ताकमूषिका ॥ शुष्का कोष्ठ्यां दृढाङ्गारैर्माता सत्त्वं विमुञ्चति-” इति रसकसत्त्वम् । “वैक्रान्तानां पलैकं च कर्षैकं टङ्कणस्य च । रविक्षीरैर्दिनं भाव्यं मर्चं शिग्रुद्रवैर्दिनम् ॥ गुजापिण्याकवह्नीनां प्रतिकर्षं नियोजयेत् । एतेन गुटिकां कृत्वा कोष्टीयन्त्रे धमेद्दृढम् ॥ शङ्खकुन्देन्देसंकाशं सत्त्वं वैक्रान्तजं भवेत्–” इति वैक्रान्तसत्त्वम् । “सिताऽसितां च सौराष्ट्रीं गोपितैर्भावयेत्तु ताम् । शत
१ 'मृदु शुभ्रं' इति पा० । २ 'ssदाय मृदु' इति पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com