Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 52
________________ ४० रसपद्धतिः । पत्री पिण्ड इति द्विधा निगदितस्ताल:, स कूष्माण्डकक्षारे भस्मपलाशमूलसलिले वा शाल्मलीवारिणि ॥ ५७ ॥ स्विन्नः षडुणिते द्वियाममथवा यामं शुचियजितो योगेष्वेव गुणप्रदस्त्वपरथा प्राणापहः प्राणिनाम् । टी० - तालस्तालकः, पत्री पिण्ड इति द्विधा निगदितः गोदन्ती पत्रीतालश्च । सः कूष्माण्डकक्षारजले पलाशमूलक्काथे शाल्मलीखरसे वा पिष्टिं कृत्वा दोलायन्त्रे खिन्नः द्वियामं शुद्धो भवति । क्वाथश्च षड्गुणः । अथवा यामं दिवसे पचेत् । सः योगेषु योजितः शुचिरेव शुद्ध एव गुणप्रदो भवति । अपरथा अन्यथा अशुद्धः केवलश्च प्राणिनां पञ्चजनानां प्राणापहः । अत्र स्वर्णवर्णः भारवान् स्निग्धस्तनुपत्रो भासुरश्च पत्रतालः; निष्पत्रोऽल्पभारवान् अल्पसत्त्वः पिण्डतालकः । उभयमपि रजोहरणं भवति, कुष्ठहारी च । शुद्धिस्तु चूर्णसंयुक्ते जले । सर्वत्र कूष्माण्डादिरसे चूर्णे देयः । ब्रह्ममूलक्काथेन त्रिवारं भाव्यस्तथा महिषीमूत्रेण; पश्चान्मूषायां दत्त्वा, दशभिरुपलैः पुटं दद्यात् । एवं द्वादशधा भावना पुढानि च दत्त्वा शुद्धं योगेषु योजयेत् । कुलित्थक्काथटङ्कणमहिषीघृतमधुयुक्तं दधिदुग्धाज्यभावितं हण्डिकायां क्षिप्त्वोपरि मलं सच्छिद्रं दत्त्वा, सन्धिलेपं कृत्वा, क्रमेण वह्निं यामचतुष्टयं दद्यात् यावन्नीलपीतो धूमो गच्छति, ततः पाण्डुधूमे सत्येक प्रहरमात्रं महच्छिद्रं गोमयेनाच्छाद्य तीव्रवह्निं दद्यात् ; यामान्ते चोद्धाट्य पाण्डुरे धूमेऽदृष्टे सत्यग्निं पूर्ण कुर्यात् । पश्चाच्छीतां स्थालीमुत्तार्य सत्त्वं गृह्णीयात् । अथवा बालच्छागनालमर्दितं तालं द्वावणवर्गेण मर्दयित्वा, काचकूप्यां विनिक्षिप्य, मृत्कर्पटैर्विलिप्य, वालुकायन्त्रे स्थापयित्वा, द्वादशप्रहरमग्निं दद्यात्, ऊर्ध्वं कण्ठस्थितं सत्त्वं गृह्णीयात् ॥ ५७ ॥ - अथ मनःशिलाशोधनमाह - श्यामाङ्गी कणवीरिकेति च शिला द्विस्तत्र मुख्याऽन्तिमा भृङ्गागस्तिजयन्तिकार्द्रकरसविन्ना शुचिः पूर्ववत् ॥ ५८ ॥ टी० - शिला द्विविधा - श्यामाङ्गी कणवीरा च । तत्र मुख्या कणवीरिका । भृङ्गागस्तिजयन्तिकार्द्रकरसविना सती पूर्ववत् शुद्धा रोगघ्नी; अशुद्धा आयुन । अत्र केचन त्रिविधामाहुः- पूर्वे द्वे खण्डाख्या च । किंचिद्रक्ता किंचिद्गौरा भाराढ्या श्यामा, हिङ्गुलद्रक्ता किंचित्पीता तेजखिनी कणवीरिका, चूर्णरूपा भारवत्तरा रक्तवर्णा खण्डपूर्वा; उत्तरोत्तरं गुणभूयिष्ठा । अशुद्धा अश्मरीमूत्रकृच्छ्रादीनां कर्त्री । तां चूर्णीकृत्य पूर्वरसेषु दोलायन्त्रेण स्वेदयेत् । अष्टमांशेन गुडगुग्गुलुलोहकिट्टेन सर्पिषा मर्दयित्वा, मूषायां दत्त्वा, अन्धयित्वा, कोष्ठ्यां ध्माता सत्त्वं मुञ्चेत् । भूनागविष्ठा धौतकटणतिक्थ कैर्मर्दयिला, कारवल्ली दलाम्भसा संपिष्य, मूषायां दत्त्वा, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144