Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 60
________________ ४८ रसपद्धतिः । दोलायत्रे व्यहं पचेत् । उद्धृत्योष्णारनालेन क्षालयेल्लोहपात्रके ॥ वस्त्रपूतं ततः कृत्वा सोष्णे पात्रे विमर्दयेत् । हस्तेनैव भवेच्छुष्कं यावत्तं पारदं पुनः ॥ चतुर्गुणेन वस्त्रेण गालयनिर्मलो भवेत् । अजीर्ण चेत्पुनर्मद्यमम्लं दत्त्वा दिनावधि ॥ दोलायां स्वेदयेत्तद्वद्भवेजीणं न संशयः । इष्टिका गुडदुग्धोर्णागृहधूमं च राजिका ॥ सैन्धवेन युतं सर्व षोडशांशं रसस्य तु । दत्त्वा ततोऽम्लवर्गेण दोलायचे दिनं पचेत् ॥ जीर्णे जीर्णे त्विदं कुर्याद्रागग्राही न संशयः । द्वात्रिंशांशं ततो प्रासं दत्त्वा चाय च जारयेत् ॥ पूर्ववत्स्वेदनान्तं च कृत्वा ग्रासं तृतीयकम् । षोडशांशं प्रदातव्यं तजीर्णे चाष्टमांशकम् ॥ जारयेत्पूर्वयोगेन एवं ग्रासचतुष्टयम् । ततः कच्छपयन्त्रेण जारयेत्तन्निगद्यते ॥ ऊर्ध्वाधश्चाष्टमांशेन ग्रासे ग्रासे बिडं क्षिपेत् । चतु शं ततो द्यशं ग्रासो देयः पुनः समः ॥ जीर्णे समं समं देयमेवं जार्य तु षड्गुणम् । रागाणां ग्रहणार्थ च दत्त्वा ग्रासे तु पूर्ववत् ॥ इत्येवं द्वन्द्वयोगानां सत्त्वानां च विशेषतः । स्वर्णादिसर्वलोहानां बीजानां जारणं हितम् ॥ कर्तव्यं वक्ष्यतेऽप्यत्र मात्रा युक्तिश्च पूर्ववत् । अभावे व्योमसत्त्वस्य कान्तपाषाणसत्त्वकम् ॥ तीक्ष्णपाषाणसत्त्वं च द्वन्द्वितं व्योमसत्त्वकम् । जारयेत्पूर्वयोगेन सर्वेषां स्यात्फलं समम् । इत्येवं षड्गुणं द्वन्द्वं यत्किंचिजारयेद्रसे। जारितं सिद्धबीजेन सारणं. तन्निगद्यते ॥ ताप्यसत्त्वं व्योमसत्त्वं तानं हेम समं समम् । आवर्त्य द्वन्द्वलिप्तायां मूषायामान्धितं पुनः ॥ समुद्धृत्य पुनर्धान्यमूषायां प्रकटं तु तत् । माक्षिकं धौतसत्त्वं च स्तोकं स्तोकं विनिक्षिपेत् ॥ स्वर्णशेषं भवेद्यावत्ताभ्यां द्वन्द्वं तु तत्पुनः। पूर्ववच्च धमेत्तावद्यावत्स्वर्णावशेषितम् ॥ सिद्धबीजमिदं ख्यातं दाडिमीपुष्पवद्भवेत् । अनेन सिद्धबीजेन पूर्ववत्सारणात्रयम् । कृत्वाऽथ जारयेत्तद्वजीर्णे बवा मुखं तथा । बन्धनं शोधनं चैव क्रामणं चैव पूर्ववत् ॥ चन्द्रार्के द्राविते योज्यं सहस्रांशेन काञ्चनम् । जायते दिव्यरूपाढ्यं सत्यं भैरवभाषितम्" इति ॥ ६१ ॥सारणामाहतसात्सायमसंशयं सुविमलं यत्रे वसाधन्विते ॥ मूषां तालसमन्वितां दृढतरां कृत्वाऽथ तस्यां दृढं पकं बीजमथो न्यसेद्रसवरे तैलाक्तयत्रस्थिते ॥ ६२ ॥ टी०-तस्मादिति । नालमूषायां द्रावितं पक्कं बीजं रसान्विते सारणायन्त्रे क्षिपेत् ढालयेच्च, एवं सारितो रसो भवति । तच्च यन्त्रं सुवर्णकारस्य तैलयुक्तं सुवर्णलगुडीकरणार्थ यत्तद्वत्स्थूलं कार्य तत्र च नालमूषया वर्णहतिया, तेन एकीभूतं भवति । तैलं तु-"ज्योतिष्मतीकरजाख्यं कटुतुम्बीसमुद्भवम् । तैलमेकं समादाय मण्डूकवसया समम्॥ कूर्मसूकरमेषाहिजलौकामत्स्यजाऽपि च-" इति । एतेष्वेका वसा ग्राह्या । “रक्तवर्गः पीतवर्गः क्वाथ्यः क्षीरैश्वतुर्गुणैः । पुष्पाणां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144