________________
४८
रसपद्धतिः ।
दोलायत्रे व्यहं पचेत् । उद्धृत्योष्णारनालेन क्षालयेल्लोहपात्रके ॥ वस्त्रपूतं ततः कृत्वा सोष्णे पात्रे विमर्दयेत् । हस्तेनैव भवेच्छुष्कं यावत्तं पारदं पुनः ॥ चतुर्गुणेन वस्त्रेण गालयनिर्मलो भवेत् । अजीर्ण चेत्पुनर्मद्यमम्लं दत्त्वा दिनावधि ॥ दोलायां स्वेदयेत्तद्वद्भवेजीणं न संशयः । इष्टिका गुडदुग्धोर्णागृहधूमं च राजिका ॥ सैन्धवेन युतं सर्व षोडशांशं रसस्य तु । दत्त्वा ततोऽम्लवर्गेण दोलायचे दिनं पचेत् ॥ जीर्णे जीर्णे त्विदं कुर्याद्रागग्राही न संशयः । द्वात्रिंशांशं ततो प्रासं दत्त्वा चाय च जारयेत् ॥ पूर्ववत्स्वेदनान्तं च कृत्वा ग्रासं तृतीयकम् । षोडशांशं प्रदातव्यं तजीर्णे चाष्टमांशकम् ॥ जारयेत्पूर्वयोगेन एवं ग्रासचतुष्टयम् । ततः कच्छपयन्त्रेण जारयेत्तन्निगद्यते ॥ ऊर्ध्वाधश्चाष्टमांशेन ग्रासे ग्रासे बिडं क्षिपेत् । चतु
शं ततो द्यशं ग्रासो देयः पुनः समः ॥ जीर्णे समं समं देयमेवं जार्य तु षड्गुणम् । रागाणां ग्रहणार्थ च दत्त्वा ग्रासे तु पूर्ववत् ॥ इत्येवं द्वन्द्वयोगानां सत्त्वानां च विशेषतः । स्वर्णादिसर्वलोहानां बीजानां जारणं हितम् ॥ कर्तव्यं वक्ष्यतेऽप्यत्र मात्रा युक्तिश्च पूर्ववत् । अभावे व्योमसत्त्वस्य कान्तपाषाणसत्त्वकम् ॥ तीक्ष्णपाषाणसत्त्वं च द्वन्द्वितं व्योमसत्त्वकम् । जारयेत्पूर्वयोगेन सर्वेषां स्यात्फलं समम् । इत्येवं षड्गुणं द्वन्द्वं यत्किंचिजारयेद्रसे। जारितं सिद्धबीजेन सारणं. तन्निगद्यते ॥ ताप्यसत्त्वं व्योमसत्त्वं तानं हेम समं समम् । आवर्त्य द्वन्द्वलिप्तायां मूषायामान्धितं पुनः ॥ समुद्धृत्य पुनर्धान्यमूषायां प्रकटं तु तत् । माक्षिकं धौतसत्त्वं च स्तोकं स्तोकं विनिक्षिपेत् ॥ स्वर्णशेषं भवेद्यावत्ताभ्यां द्वन्द्वं तु तत्पुनः। पूर्ववच्च धमेत्तावद्यावत्स्वर्णावशेषितम् ॥ सिद्धबीजमिदं ख्यातं दाडिमीपुष्पवद्भवेत् । अनेन सिद्धबीजेन पूर्ववत्सारणात्रयम् । कृत्वाऽथ जारयेत्तद्वजीर्णे बवा मुखं तथा । बन्धनं शोधनं चैव क्रामणं चैव पूर्ववत् ॥ चन्द्रार्के द्राविते योज्यं सहस्रांशेन काञ्चनम् । जायते दिव्यरूपाढ्यं सत्यं भैरवभाषितम्" इति ॥ ६१ ॥सारणामाहतसात्सायमसंशयं सुविमलं यत्रे वसाधन्विते ॥ मूषां तालसमन्वितां दृढतरां कृत्वाऽथ तस्यां दृढं पकं बीजमथो न्यसेद्रसवरे तैलाक्तयत्रस्थिते ॥ ६२ ॥
टी०-तस्मादिति । नालमूषायां द्रावितं पक्कं बीजं रसान्विते सारणायन्त्रे क्षिपेत् ढालयेच्च, एवं सारितो रसो भवति । तच्च यन्त्रं सुवर्णकारस्य तैलयुक्तं सुवर्णलगुडीकरणार्थ यत्तद्वत्स्थूलं कार्य तत्र च नालमूषया वर्णहतिया, तेन एकीभूतं भवति । तैलं तु-"ज्योतिष्मतीकरजाख्यं कटुतुम्बीसमुद्भवम् । तैलमेकं समादाय मण्डूकवसया समम्॥ कूर्मसूकरमेषाहिजलौकामत्स्यजाऽपि च-" इति । एतेष्वेका वसा ग्राह्या । “रक्तवर्गः पीतवर्गः क्वाथ्यः क्षीरैश्वतुर्गुणैः । पुष्पाणां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com