SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः ४९ रक्तपीतानामनेकेषां द्रवं हरेत् ॥ एतद्वावं द्विभागं स्यात्पूर्ववाथचतुष्टयम् । पातयेत्काकतुण्ड्युत्थं महाराष्ट्रीद्रवं तथा । प्रत्येकं भागमेकैकं पूर्वतैलं वसायुतम् । योज्यं भागद्वयं तत्र भूलतामलतालकम् ॥ द्वन्द्वमेलापयोगैकं तैलात्षोडशकांशकम् । प्रत्येकं योजयेत्तस्मिन् सर्वमेकत्र पातयेत् ॥ ग्राह्यं तैलावशेषं तद्वस्त्रपूतं सुरक्षयेत् । विख्यातं सारणातैलं रसराजस्य सारणे - " इति । उत्तमभाण्डमध्ये रसं दत्त्वा तैलं निक्षिप्य, एकीकृत्य, तन्मध्ये द्रुतं पक्वबीजं देयम् । एकीभूतमिदं सुसारितमतः खल्वे विमर्यं रसैजम्बीरप्रभवैर्विडैः समतुलैः कूर्माभिधे जारयेत् । जीर्णे बीजरसौ विमर्द्य सलिलैर्जम्बीरलुङ्गोत्थितैधर्मे धार्यमतस्तु सार्यममलं बीजं त्रिपादं पुनः || ६३ ॥ सार्य जार्यमनेन पूर्वविधिना सिद्धं सुधीभिः पुनर् : । टी० - सारणानन्तरमन्यत्क्रममाह — एकीभूतमित्यादि । बिडं कच्छपयन्त्रं तु प्रागुक्तम् । पश्चान्मर्दनं तप्तखल्वे कृला, वस्त्रपूतं च कृत्वा, तस्मिन्नेव सारणायन्त्रे द्विगुणेन पक्कबीजेन पूर्ववदेकीकृत्य, पुनः सबिडे कच्छपयन्त्रे जारणं कृत्वा, पुनः वस्त्रपूतं च कृत्वा, तप्तखल्वे मर्दयित्वा, वस्त्रपूतं सारणायन्त्रे प्रक्षिप्य, द्रुतं त्रिगुणबीजं प्रक्षिप्य, पूर्ववज्जारणं कुर्यात् । एवं सारणायन्त्रे सर्वत्र ज्ञेयम् ॥ ६३ ॥ - धत्तूरोद्भवतैलसंयुतमिदं शुद्धं तु तालं समम् । द्रावैर्दिव्यगणस्य लोहघटिते तप्तेऽथ खल्वे दिनं म चान्तिवपवितं दद्यात्करींपैः पुटम् ॥ ६४ ॥ एवं त्रिः परिपाचितं रसवरं बद्धा मुखं तद्भवेच्छुत्वं माक्षिकधौतकं शशिरजस्तीक्ष्णं रसेन्द्रं समम् । सर्वं जालिनिकारसैर्दृढतरं मर्यं दिनं तत्पुनः क्षौद्राज्यैस्त्रिदिनं विमर्दितमिदं गोलीकृतं शोषितम् ||६५ || वज्रक्रौञ्चिगतं पिधानवसनैराच्छादितं सप्तधा शोप्यं खादिरकोकिलैः खरतरं तीव्राशिना संधमेत् । खोटं टङ्कणकाचचूर्णमणुशो दवा पुनः संधमेद्वारांस्त्रींस्तरुणार्क कान्तिरमलो बद्धो रसेन्द्रो भवेत् ॥ ६६ ॥ मुखबन्धाख्यं संस्कारान्तरमाह - धत्तूरेत्यादि । दिव्यौषधयश्च वज्रमूषा च प्रागुक्ता । अन्धितमाच्छादितं मृत्तिकया, करीषाग्निस्तु भूधरपुटमेव, अथवा रस० ५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy