________________
रसपद्धतिः ।
५०
मृदुपुटं गौर्वरपुटं वा । पाकस्तु दिनपर्यन्तम् । दिव्यौषधिद्रावैः पुनर्मर्दयित्वा मुखबन्धो भवति । पाचनं मर्दनं च वारसप्तकं ज्ञेयम् । तस्यैव खोटककरणमाहतद्भवेदित्यादि । माक्षिकसत्त्वं धौतमाक्षिकमित्युच्यते; अथवा माक्षिकं मर्दयित्वा जलं दत्त्वा यत्सुवर्णवर्णं प्रान्ते उर्वरितं भवति तज्ज्ञेयं; अथवा भूनागसत्त्वं धौतशब्देनोच्यते । एतेषां श्लक्ष्णचूर्ण समांशं पीतदेवदाल्या रसेन मर्दयित्वा, पश्चात्तन्मध्ये पूर्व पारदं दत्त्वा दिनावधि मर्दयेत् । सूक्ष्मचूर्णं त्रिदिवसं मधुसर्पिभ्र्भ्यां मर्दयित्वा गोलकीकृतं वज्रमूषागतं सप्तमृत्कर्पटै रुङ्खा, संशोष्य, पश्चात्खदिराङ्गारान् दत्त्वा, कोष्ठयां तत्राग्निना धमेत्, स खोटबद्धो भवति । तदुक्तम् - "सारितं सार - णायन्त्रे क्षिपेत्तैलवसान्विते । द्रावितं नालमूषायां पक्वबीजं रसान्वितम् ॥ तयन्त्रे ढालयेदेव सारितो जायते रसः । सारितं तु पुनर्मर्थं पूर्ववद्विसंयुतम् ॥ जारयेकच्छपे यन्त्रे जीर्णे बीजं तु सारयेत् । पूर्ववत्सारणायन्त्रे वीजेन द्विगुणेन च ॥ पुनस्तज्जारयेत्तद्वत्तथैव प्रतिसारयेत् । त्रिगुणेन च बीजेन पूर्ववज्जारयेत्पुनः " - इति सारणात्रयम् । “तद्वसं तालकं तुल्यं तैलं धत्तूरसंभवम् ॥ दिव्यौषधिगणद्रावैः सर्वं मदिना । वज्रमूषान्धितं पश्चात्कारीषेणाग्निना पचेत् ॥ इत्येवं च पुनः कुर्यात्ततो बद्धमुखो भवेत् " - इति मुखबन्धनम् । “तसं धौतमाक्षीकं तीक्ष्णशुल्बरजः शशी । समांशं देवदात्युत्थद्रवैर्मर्य दिनावधि ॥ त्रिदिनं मधुसर्पि मर्दितं गोलकीकृतम् । वज्रमूषागतं रुद्धा शोष्यं तीत्राग्निना धमेत् ॥ खदिराङ्गारयोगेन खोटबद्धो भवेद्रसः " - इति । तस्य शोधनमाह - खोटमिति । काचोऽत्र श्वेतो नीलो वा । अन्यच स्पष्टम् । रसबन्धनानन्तरं स्थापनं वदन्ति ॥ ६४-६६॥
तं सिक्थेन सुवेष्टितं कनकजे सामुद्रके स्थापितं तारं क्रामणसंयुतं शतमितं स्वर्णं भवेद्वलः ॥ ६७ ॥ अष्टावतिभागं स्याद्रौप्यमेकं च हाटकम् । rat भागो वेधकः स्यादित्येवं वेधनक्रमः ॥ ६८ ॥
वेधनमाह - तमित्यादि । तं रसम् । सिक्थकं मधूच्छिष्टं 'मेण' इति तस्य पूजनं सर्वदा कार्यम् । तस्य वेधप्रकारमाह - शतमितमिति । कामणयोगश्च - " सौराष्ट्री भावयेद्धर्मे गवां पित्तैस्त्रिधा पुनः । तत्सत्त्वं व्योमवद्राह्यं कामकं योजयेद्रसे ॥ इन्द्रगोपं विषं काचं नररक्तं सुहीपयः । रसकं दरदं तैलं सर्वमेकत्र मर्दयेत् ॥ कामकं क्षेपलेपाभ्यां वेधकाले प्रयोजयेत्” इति दशविधं कामकम् । वेवश्चात्र क्षेपसंज्ञकः । वेधयोजनप्रकारमाह — अष्टानवतीति । सुवर्णकरणे रौप्यमष्टानवतिभागभेको भागः सुवर्णस्य वेधकद्रव्यस्य एको भागः, एवं रौप्यादौ । तदुक्तम् - "तं खोटं टङ्कणैः काचैर्वेधयेद्वै धमन् धमन् । तेजःपुञ्ज रसो बद्धो बालार्कसदृशो भवेत् "
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com