________________
रसपद्धतिः।
इति रसबन्धनम् । “तं रसं सिक्थकेनैव वेष्टयित्वाऽथ पूजयेत् । शतांशेन द्रुते तारे कामणेनैव संयुतम् ॥ तत्तारं जायते स्वर्ण जाम्बूनदसमप्रभम् । अष्टानवतिभागं स्याद्रौप्यमेकं च हाटकम् ॥ एको भागो वेधकः स्यात्"-इति गन्धकजारणाक्रमेण वेधः । रजनप्रकारस्तु,-"खर्परस्थे द्रुते नागे ब्रह्मबीजदलानि तु । क्षिप्त्वाऽग्निं ज्वालयेच्चण्डं ब्रह्मदण्डेन चालयेत् ॥ चतुर्यामात्तु तद्भस्म जातं पात्रात्समुद्धरेत् । तद्भस्म गन्धकं तुल्यं याममम्लेन पेषयेत् ॥ रुद्घा गजपुटे पश्चात्पादांशं गन्धकं पुनः । दत्त्वाऽम्लैमदितं पश्चादेवं वारांश्चतुर्दश ॥ रक्तवर्ण भवेद्भस्म तद्भाग खर्परं क्षिपेत् । भागत्रयं शिलाचूर्ण पृथक्पात्रे विनिक्षिपेत् । पञ्चाङ्गं वासकाचर्ण वक्चूर्ण चार्जुनस्य च ॥ शाककिंशुककोरण्टशिग्रूणां पुष्पमाहरेत् । नागिनी नागकन्या च कुमारी चाहिमारकः ॥ सर्वेषां प्रतिभागैकं शिलामध्ये विनिक्षिपेत् । तेभ्यश्चतुगुणैमूत्रैइछागजैः क्वाथमाहरेत् ॥ पूर्वोक्तं भस्म नागस्य खर्परस्य च संक्षिपेत् । चालयन्पाचयेच्चुलयां यावत्सप्तदिनावधि ॥ अनेन मृतनागेन वापो देयो द्रुतस्य च । पक्वबीजस्य भागांस्त्रीन् रञ्जितं जायते शुभम्" इति । रञ्जनं, सर्वत्र पक्वबीजे कार्यम् । “त्रिक्षारं पञ्चलवणं कासी कासीसगन्धकम् । माक्षिकं काजि कैर्युक्तं ताम्रपात्रे दिनत्रयम् ॥ स्थितं गर्भेषु तस्मिस्तु द्रुतं नागं विनिक्षिपेत् । तारकर्मणि वङ्गं वा शतवारं निषेचयेत् ॥ तद्वं ताम्रपात्रस्थमभिषेकं विदुर्बुधाः ॥ अनेन चारणावस्तु शतवारं विभावयेत् । द्वन्द्वितं व्योमसत्त्वं च बीजानि विविधानि च ॥ द्वन्द्वितं वज्रबीजं च भावितं चारयेद्रसे"-इत्यभिपेकः सर्वत्र कार्यः ॥ ६७ ॥ ६८ ॥ प्रकारान्तरमाहशुद्धं संस्कृतिभिस्तथा सुविमलं गन्धं रसं भावितं पात्रे लोहतुलामये विनिहितं धूमं पिबत्यल्पशः । एवं षोडशभागगन्धजनितं धूमं हि चार्य मुहुः पश्चागन्धकवासितो रसवरो नाम्ना तु कामाभिधः ।। ६९ ॥ व्योमादिप्रभवं तु सत्त्वममलं साध्यं ततश्चारयेसार्य जार्यमनेकशो मुंखभवं बन्धं च संक्रामणम् । चन्द्रार्के निहितं सहस्रशतशो वेधेन जाम्बूनदं कुर्यादानविधौ नियोज्य सकलं भोगे च राजोचिते ॥७॥ यद्वा निष्कशतं शतांशविमले गन्धं रसं कन्यकाद्रावैर्मधमथोर्ध्वपातविधिना चोर्ध्वं नयेत्पारदम् । १ “यत्रे" पा०। २ 'मुखवधं पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com