SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः। ४७ प्रासं दत्त्वा, चारणायन्त्रे धर्मे दिनैकं मर्दयित्वा, त्रिक्षारादिनुहीदुग्धमूत्रैमलयित्वा, वस्त्रे लेपं कृत्वा, तन्मध्ये रसं दत्त्वा, भूर्जपत्रेणावेष्टय, सिद्धमूल्यम्लसंयुक्तं दोलायन्त्रे पचेत् , उष्णेन कानिकेन प्रक्षालनं, पश्रादुष्णे लोहपात्रे वस्त्रपूतं निक्षिपेत् , ततो हस्तेन यावच्छुष्कं तावन्मर्दयेत् , निर्मलीकरणार्थ पुनीलनं, एवंकृते यदा वस्त्रमध्ये न गलति तदा तप्तलोहखल्वे मर्दयेत् , पुनः स्वेदनं दोलायन्त्रे; एवं जीर्ण कुर्यादिति चारणजारणाक्रमः । इष्टिकाचूर्णगुडदग्धोर्णागृहधूमराजिकासैन्धवं सर्व रसषोडशांशं दत्त्वा, निम्बूरसेन मर्दयित्वा, अम्लवर्गयुते दोलायत्रे पचेत् , जीर्णे जीर्णे पुनः पुनः कुर्यात् ; एवं रागग्राही भवति । ततो द्वात्रिंशदंशं ग्रासं दद्यात् । पुनश्चारणं जारणं मर्दनं स्वेदनं च कृत्वा, तृतीयो ग्रासः षोडशांशेन भागेन; तत्रापि पूर्ववत्कृत्वाऽष्टमांशभागो देयः । चारणादि पूर्ववत् । एवं ग्रासचतुष्टयं दत्त्वा कच्छपयन्त्रण जारणां कुर्यादिति । बिडमूर्वाधोऽष्टमांशेन प्रक्षिप्य ततोऽर्धाशो ग्रासः, तत्रापि पूर्ववत् । ततः समः, तत्रापि पूर्ववत् । एवं समं समं दत्त्वा पूर्ववजारणादि षड्गुणपर्यन्तं कार्यम् । रागग्रहणं तु पूर्वव कार्यम् । एवं द्वन्द्वयोगेन सत्त्वस्वर्णादिलोहबीजानां जारणं कर्तव्यम् । मात्रायुक्तिरपि पूर्ववत्कार्या । ततः पक्वबीजेन सिद्धबीजेन वा सारणात्रयं कुर्यात् । पुनः कच्छपयन्त्रेण तप्तखल्वे मर्दनेन जारयेत् । ततो मुखबन्धनं शोधनं रसबन्धनं क्रामणं च पूर्ववत् कुर्यात् । तारस्याप्टानवतिभागाः वर्णस्यैको भागो वेधकस्यैको भाग इति प्रकारस्तु सर्वत्र ज्ञेयः । चन्द्रार्कयोर्मिलितयोर्वेधो रसरत्नाकरे-“ताप्येन मारयेछुल्वं तथा गन्धेन मारितम् । तत्तानं वाहयेनागे मूषामध्ये धमन् धमन् ॥ शनैः शतगुणं यावत्ताप्यचूर्ण क्षिपन्क्षिपन् । तं नागं वाहयेत्स्वर्णे द्वात्रिंशद्गुणितं क्रमात् । म्वर्णशेपं तु तद्बीजं समांशं जारयेद्रसे । अनेनैव तु बीजेन सारयेज्जारयेत्पुनः ॥ पूर्ववत्कमयोगेन बन्धनान्तं च कारयेत् । क्रामणेन समायुक्तं सहस्रांशेन योजयेत् ॥ चन्द्रार्क जायते स्वर्ण देवाभरणमुत्तमम्" इति । पक्वबीजं तु,-"स्वर्ण तानं समं शुद्धं दावितं लेपयेत्पुनः । साम्लेन ताप्यकल्केन धमेत्स्वर्णावशोषितम् ॥ एवं दशगुणं वाह्यं तानं वा तुत्थसत्वकम् । पक्कबीजमिति ख्यातं स्वर्णशेषं समाहरेत्" इति । एवं पक्वबीजान्य न्याप्यनेकविधानि कार्याणीत्यादि ग्रन्थान्तरतो ज्ञेयम् । तदुक्तं रसरत्नाकरे,-"वर्ण नागं समावर्त्य माषमात्रं तु घर्षयेत् । तप्तखत्वे ततस्तस्मिन् पलमेकं रसं क्षिपेत् ॥ सिद्धमूलीद्रवं दत्त्वा मर्दयेत्काजिकैदिनम् । घर्मे वा तप्तखल्वे वा ततो ग्रासं तु दापयेत् ॥ चतुःषष्ट्यंशकं पूर्व द्वन्द्वसत्त्वं सुभावितम् । दत्त्वा धर्मे दिनैकं च चारणायन्त्रके क्षिपेत् ॥ सजम्बीरे दिनं धर्मे धारितश्चरति ध्रुवम् । त्रिक्षारं पञ्चलवणमम्लवर्गः स्नहीपयः ।। गोमूत्रैर्गालयेत्सर्व तेन वस्त्रं घनं दिहेत् । तन्मध्ये धारितं सूतं बद्धवा भूर्जेन वेष्टयेत् । सिद्धमूल्यम्लसंयुक्त १ स्थापयित्वा' पा० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy