________________
रसपद्धतिः।
वा । मर्दनानन्तरं जम्बीररससंयुक्त काचचषकपात्रे उष्णमध्ये स्थापयेत् । एवं दिनत्रयं कुर्यात् । तेन चारणा भवति । बीजं तु चतुःषष्ट्यंशक्रमेण पादपर्यन्तं चार्यम् । तदुक्तम् ,-"तं रसं तप्तखल्वे तु क्षिपेद्वस्त्रेण गालितम् । पादांशं पक्कबीजं च दत्त्वाऽम्लैमर्दयेद्दिनम् ॥ निक्षिप्य चारणायन्त्रे जम्बीररससंयुते । तत्पात्रं धारयेद्धर्मे चारितो जायते रसः” इति ॥ ६ ॥ चारणानन्तरं जारणमाहपश्चात्कच्छपयत्रके सबिडकं घस्रं पचेत्पूर्ववत् ॥ ६१ ॥ जार्य सार्यमनेकशः पुनरिदं बीजं सुपकं रसे पश्चादित्यादि । सबिडकमिति बिडं तु–“त्रिक्षारं पञ्चलवणं नवसारं कटुत्रयम् । इन्द्रगोपं घनं शिग्रं सूरणं वनसूरणम् ॥ भावयेदम्लवर्गेण त्रिदिनं ह्यातपे खरे। अनेन मर्दितः सूतो भक्षयत्यष्टलोहकम्" इति । यद्वा,-"दग्धं शङ्ख रविक्षीरैर्भावितं शतधाऽऽतपे । ततः पञ्चपुटैः पक्वं जारणे बिडमुत्तमम्'-इति । यद्वा--"टङ्कणं शतधा भाव्यं द्रवैः पालाशमूलजैः। बिडो वह्निमुखो नाम हितोऽयं वहिजारणे"-इति । लौकिकास्तु-त्रिक्षारगन्धकलवणसौरक्षारकपुरकाहीकासीसश्वेतशिलाजतुगौरीपाषाणनवसारविडलवणानामथवा पञ्चलवणकालीमनःशिलामयूरतुत्थाम्लवर्गस्नुह्यर्कदुग्धमूत्रवर्गाणां कूपिकायन्त्रेण द्रवं निष्कास्य तेन सह मर्दयन्ति; अथवा एतैरेव सह यथासंभवं मर्दयन्ति । एवमन्यान्यपि बिडानि झैयानि । कच्छपयन्त्रं तु-“जलपूर्णपात्रमध्ये दत्त्वा घटसर्परं सुविस्तीर्णम् । तदुपरि बिडमध्यगतः स्थाप्यः सूतः कृतः कोष्ठ्याम् ॥ लघुकटोरिकया कृतपटमृत्संधिलेपयाऽऽच्छाद्य । पूर्ण तद्धटखर्परमगारैः खदिरकोकिलभवैः ॥ स्वेदनतो मर्दनतः कच्छपयन्त्रस्थितो रसो जरति । अग्निबलेनैव ततो गर्भे द्रवन्ति सर्वसत्त्वानि” इति । पुटं चात्रेदमेव देयम् । तदुक्तं रसरत्नाकरे,–“सबिडं कच्छपे यत्रे दिनकं तं पुटे पचेत् । जारितः स्यात्पुनर्बीजं दत्त्वा चार्य च पूर्ववत् ॥ जारयेच्च पुनस्तद्वदेवं कुर्यात्समं कमात्" इति । एवं जारितो भवति । ततः पुनस्तप्तखल्वे वस्त्रगालितं रसं निक्षिप्य मर्दनं कुर्यात् । तप्तखल्वस्तु,"अजाशकृत्तुषाग्निं च खनयित्वा भुवि क्षिपेत् । तस्योपरि स्थितः खल्वस्तप्तखल्वोऽमिधीयते"-इति । खल्वश्चात्र लौहः । मर्दनानन्तरं धर्मे सजम्बीररसं स्थापयिला पुनः कच्छपयन्त्रे जारणं कुर्यात् । एवं जारणात्रयं चारणाग द्वतिरूपं संस्कारद्वयं च प्रतिपादितम् । जारणलक्षणं बिडलक्षणं च प्रागुक्तम् । सबिडे कच्छपे यन्त्रे समुखसूतस्य बीजजारणमनेन क्रमेण कार्यम् । सुवर्णनागयोरावर्तनं कृत्वा, माषमात्रं तप्तखल्वे घर्षयिखा, पश्चात्पलमात्र शुद्ध पारदं दत्त्वा, मर्दयिला, सिद्धमूलीरसं दत्त्वा, काजिकैर्वा मर्दयिला, खरधर्ममध्ये तप्तखल्वे चतुःषष्ट्यंशतो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com