________________
रसपद्धतिः ।
दत्त्वा सर्वमिदं पुनर्मृदु पचेदेवं शतं जारयेद्वन्धं चेष्टिकयत्रके लघुपुटैः सिद्धं रसं तं पुनः ॥
४५
टी० - सप्तमृत्कर्पटैः समुद्रां कूपिकां कृत्वा, वालुकायन्त्रे संस्थाप्य, प्रहरचतुटयमग्निं दद्यात् । पुनः पुनर्गन्धकं कर्पूरं च दत्त्वा पाकं कुर्यात् । तच्चेत्कूपिकायन्त्रं दृढं न स्यात्तदा नवीनं संपादयेत् । यदि रससिन्दूरः स्यात्तदोर्ध्वपातनेन हिङ्गुलवनिष्कासयेदित्येके । भावनादिप्रकारस्तु - "गन्धकं सूक्ष्मचूर्णं तु सप्तधा बृहतीद्रवैः । भावयेच्चाथ वृन्ताकरसेनैव तु सप्तधा ॥ पलैकं पारदं शुद्धं काचकूप्यन्तरे क्षिपेत् । कषैकं भावितं गन्धं कर्पूरं माषमात्रकम् ॥ क्षिप्त्वा तत्र मुखं रुद्ध्वा मृदा कूपीं च लेपयेत् । दीप्ताग्निना दिनं पाच्या मुखमुद्घाटयेत्पुनः ॥ जीर्णे गन्धककर्पूरं दत्त्वा तद्वत्पुनः पुनः । एवं शतगुणं जीर्ण गन्धकं जारयेद्रसे ” – इति । स्पष्टमेतत् । प्रकारान्तरेण जारणमाह – इष्टिकेत्यादि । इष्टिकायन्त्रं गौरीयन्त्रम् । अत एवोकम्," विधाय वर्तुलां गर्ता मलमत्र निधाय च । विनिधायेष्टिकां तत्र मध्ये गर्तवतीं शुभाम् ॥ गर्तस्य परितः कुर्यात्पालिकामङ्गुलोच्छ्रिताम् । गर्ते सूतं विनिक्षिप्य गर्तास्ये वसनं क्षिपेत्॥ निक्षिपेगन्धकं तत्र मल्लेनास्यं निरुध्य च । मल्लपालिकयोर्मध्ये मृदा सम्यविरुध्य च ॥ वनोत्पलैः पुटं देयं कपोताख्यं न चाधिकम् । इष्टिकायन्त्रमेतत्स्याद्गन्धकं तेन जारयेत्”–इति । लघुपुटं तु " यत्पुटं दीयते भूमावष्टसंख्यावनोत्पलैः । बच्चा (द्ध) सूतकभस्मार्थं कपोतपुटमुच्यते " -- इति । तदुक्तं रसरत्नाकरे,— " कासीसं चैव सौराष्ट्री स्वर्जिक्षा राजमोदकम् । शिश्रुतोयेन संयुक्तं कृत्वा भाव्यमनेन वै ॥ सप्ताहं चूर्णितं गन्धं भावयेत्तत्पुनः पुनः । इष्टिकागर्तमध्ये तु सम्यक् शुद्धं रसं क्षिपेत् ॥ मुखं खच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः । दशांशं गन्धकं दत्त्वा शरावेणावरोधयेत् ॥ पृष्ठे लघुपुटं देयं जीर्णे गन्धं पुनः क्षिपेत् । एवं शतगुणं जीर्ण गन्धकं कारयेच्छनैः " - इति । स्पष्टमेतत् ॥ ५९ ॥ -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
----
चारणाप्रकार माह
तीक्ष्णसमुद्भवे सुविमले खल्वेऽथ सूतं क्षिपेत्पादांशं कनकं विमर्द्य शनकैर्दत्त्वाऽऽम्लजम्बीरकम् ॥ ६० ॥ पात्रे जम्भलवारिणा सुविपुले काचोद्भवे पूरिते स्थाप्यं सूर्यखरातपे पटुतरं घस्रं ततो मर्दितम् || तस्मिन्नेव पुनर्ददीत विमलं संचारणात्साम्यता
टी० - तप्तखल्वलक्षणं पक्वबीजलक्षणं च वक्ष्यते; अम्लं निम्बुफलं क्षुद्रं पनसं
१ 'यत्रे' पा० । २ 'च सुनले' पा० ।
www.umaragyanbhandar.com