Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 62
________________ रसपद्धतिः । ५० मृदुपुटं गौर्वरपुटं वा । पाकस्तु दिनपर्यन्तम् । दिव्यौषधिद्रावैः पुनर्मर्दयित्वा मुखबन्धो भवति । पाचनं मर्दनं च वारसप्तकं ज्ञेयम् । तस्यैव खोटककरणमाहतद्भवेदित्यादि । माक्षिकसत्त्वं धौतमाक्षिकमित्युच्यते; अथवा माक्षिकं मर्दयित्वा जलं दत्त्वा यत्सुवर्णवर्णं प्रान्ते उर्वरितं भवति तज्ज्ञेयं; अथवा भूनागसत्त्वं धौतशब्देनोच्यते । एतेषां श्लक्ष्णचूर्ण समांशं पीतदेवदाल्या रसेन मर्दयित्वा, पश्चात्तन्मध्ये पूर्व पारदं दत्त्वा दिनावधि मर्दयेत् । सूक्ष्मचूर्णं त्रिदिवसं मधुसर्पिभ्र्भ्यां मर्दयित्वा गोलकीकृतं वज्रमूषागतं सप्तमृत्कर्पटै रुङ्खा, संशोष्य, पश्चात्खदिराङ्गारान् दत्त्वा, कोष्ठयां तत्राग्निना धमेत्, स खोटबद्धो भवति । तदुक्तम् - "सारितं सार - णायन्त्रे क्षिपेत्तैलवसान्विते । द्रावितं नालमूषायां पक्वबीजं रसान्वितम् ॥ तयन्त्रे ढालयेदेव सारितो जायते रसः । सारितं तु पुनर्मर्थं पूर्ववद्विसंयुतम् ॥ जारयेकच्छपे यन्त्रे जीर्णे बीजं तु सारयेत् । पूर्ववत्सारणायन्त्रे वीजेन द्विगुणेन च ॥ पुनस्तज्जारयेत्तद्वत्तथैव प्रतिसारयेत् । त्रिगुणेन च बीजेन पूर्ववज्जारयेत्पुनः " - इति सारणात्रयम् । “तद्वसं तालकं तुल्यं तैलं धत्तूरसंभवम् ॥ दिव्यौषधिगणद्रावैः सर्वं मदिना । वज्रमूषान्धितं पश्चात्कारीषेणाग्निना पचेत् ॥ इत्येवं च पुनः कुर्यात्ततो बद्धमुखो भवेत् " - इति मुखबन्धनम् । “तसं धौतमाक्षीकं तीक्ष्णशुल्बरजः शशी । समांशं देवदात्युत्थद्रवैर्मर्य दिनावधि ॥ त्रिदिनं मधुसर्पि मर्दितं गोलकीकृतम् । वज्रमूषागतं रुद्धा शोष्यं तीत्राग्निना धमेत् ॥ खदिराङ्गारयोगेन खोटबद्धो भवेद्रसः " - इति । तस्य शोधनमाह - खोटमिति । काचोऽत्र श्वेतो नीलो वा । अन्यच स्पष्टम् । रसबन्धनानन्तरं स्थापनं वदन्ति ॥ ६४-६६॥ तं सिक्थेन सुवेष्टितं कनकजे सामुद्रके स्थापितं तारं क्रामणसंयुतं शतमितं स्वर्णं भवेद्वलः ॥ ६७ ॥ अष्टावतिभागं स्याद्रौप्यमेकं च हाटकम् । rat भागो वेधकः स्यादित्येवं वेधनक्रमः ॥ ६८ ॥ वेधनमाह - तमित्यादि । तं रसम् । सिक्थकं मधूच्छिष्टं 'मेण' इति तस्य पूजनं सर्वदा कार्यम् । तस्य वेधप्रकारमाह - शतमितमिति । कामणयोगश्च - " सौराष्ट्री भावयेद्धर्मे गवां पित्तैस्त्रिधा पुनः । तत्सत्त्वं व्योमवद्राह्यं कामकं योजयेद्रसे ॥ इन्द्रगोपं विषं काचं नररक्तं सुहीपयः । रसकं दरदं तैलं सर्वमेकत्र मर्दयेत् ॥ कामकं क्षेपलेपाभ्यां वेधकाले प्रयोजयेत्” इति दशविधं कामकम् । वेवश्चात्र क्षेपसंज्ञकः । वेधयोजनप्रकारमाह — अष्टानवतीति । सुवर्णकरणे रौप्यमष्टानवतिभागभेको भागः सुवर्णस्य वेधकद्रव्यस्य एको भागः, एवं रौप्यादौ । तदुक्तम् - "तं खोटं टङ्कणैः काचैर्वेधयेद्वै धमन् धमन् । तेजःपुञ्ज रसो बद्धो बालार्कसदृशो भवेत् " - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144