Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 63
________________ रसपद्धतिः। इति रसबन्धनम् । “तं रसं सिक्थकेनैव वेष्टयित्वाऽथ पूजयेत् । शतांशेन द्रुते तारे कामणेनैव संयुतम् ॥ तत्तारं जायते स्वर्ण जाम्बूनदसमप्रभम् । अष्टानवतिभागं स्याद्रौप्यमेकं च हाटकम् ॥ एको भागो वेधकः स्यात्"-इति गन्धकजारणाक्रमेण वेधः । रजनप्रकारस्तु,-"खर्परस्थे द्रुते नागे ब्रह्मबीजदलानि तु । क्षिप्त्वाऽग्निं ज्वालयेच्चण्डं ब्रह्मदण्डेन चालयेत् ॥ चतुर्यामात्तु तद्भस्म जातं पात्रात्समुद्धरेत् । तद्भस्म गन्धकं तुल्यं याममम्लेन पेषयेत् ॥ रुद्घा गजपुटे पश्चात्पादांशं गन्धकं पुनः । दत्त्वाऽम्लैमदितं पश्चादेवं वारांश्चतुर्दश ॥ रक्तवर्ण भवेद्भस्म तद्भाग खर्परं क्षिपेत् । भागत्रयं शिलाचूर्ण पृथक्पात्रे विनिक्षिपेत् । पञ्चाङ्गं वासकाचर्ण वक्चूर्ण चार्जुनस्य च ॥ शाककिंशुककोरण्टशिग्रूणां पुष्पमाहरेत् । नागिनी नागकन्या च कुमारी चाहिमारकः ॥ सर्वेषां प्रतिभागैकं शिलामध्ये विनिक्षिपेत् । तेभ्यश्चतुगुणैमूत्रैइछागजैः क्वाथमाहरेत् ॥ पूर्वोक्तं भस्म नागस्य खर्परस्य च संक्षिपेत् । चालयन्पाचयेच्चुलयां यावत्सप्तदिनावधि ॥ अनेन मृतनागेन वापो देयो द्रुतस्य च । पक्वबीजस्य भागांस्त्रीन् रञ्जितं जायते शुभम्" इति । रञ्जनं, सर्वत्र पक्वबीजे कार्यम् । “त्रिक्षारं पञ्चलवणं कासी कासीसगन्धकम् । माक्षिकं काजि कैर्युक्तं ताम्रपात्रे दिनत्रयम् ॥ स्थितं गर्भेषु तस्मिस्तु द्रुतं नागं विनिक्षिपेत् । तारकर्मणि वङ्गं वा शतवारं निषेचयेत् ॥ तद्वं ताम्रपात्रस्थमभिषेकं विदुर्बुधाः ॥ अनेन चारणावस्तु शतवारं विभावयेत् । द्वन्द्वितं व्योमसत्त्वं च बीजानि विविधानि च ॥ द्वन्द्वितं वज्रबीजं च भावितं चारयेद्रसे"-इत्यभिपेकः सर्वत्र कार्यः ॥ ६७ ॥ ६८ ॥ प्रकारान्तरमाहशुद्धं संस्कृतिभिस्तथा सुविमलं गन्धं रसं भावितं पात्रे लोहतुलामये विनिहितं धूमं पिबत्यल्पशः । एवं षोडशभागगन्धजनितं धूमं हि चार्य मुहुः पश्चागन्धकवासितो रसवरो नाम्ना तु कामाभिधः ।। ६९ ॥ व्योमादिप्रभवं तु सत्त्वममलं साध्यं ततश्चारयेसार्य जार्यमनेकशो मुंखभवं बन्धं च संक्रामणम् । चन्द्रार्के निहितं सहस्रशतशो वेधेन जाम्बूनदं कुर्यादानविधौ नियोज्य सकलं भोगे च राजोचिते ॥७॥ यद्वा निष्कशतं शतांशविमले गन्धं रसं कन्यकाद्रावैर्मधमथोर्ध्वपातविधिना चोर्ध्वं नयेत्पारदम् । १ “यत्रे" पा०। २ 'मुखवधं पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144