Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः।
४७
प्रासं दत्त्वा, चारणायन्त्रे धर्मे दिनैकं मर्दयित्वा, त्रिक्षारादिनुहीदुग्धमूत्रैमलयित्वा, वस्त्रे लेपं कृत्वा, तन्मध्ये रसं दत्त्वा, भूर्जपत्रेणावेष्टय, सिद्धमूल्यम्लसंयुक्तं दोलायन्त्रे पचेत् , उष्णेन कानिकेन प्रक्षालनं, पश्रादुष्णे लोहपात्रे वस्त्रपूतं निक्षिपेत् , ततो हस्तेन यावच्छुष्कं तावन्मर्दयेत् , निर्मलीकरणार्थ पुनीलनं, एवंकृते यदा वस्त्रमध्ये न गलति तदा तप्तलोहखल्वे मर्दयेत् , पुनः स्वेदनं दोलायन्त्रे; एवं जीर्ण कुर्यादिति चारणजारणाक्रमः । इष्टिकाचूर्णगुडदग्धोर्णागृहधूमराजिकासैन्धवं सर्व रसषोडशांशं दत्त्वा, निम्बूरसेन मर्दयित्वा, अम्लवर्गयुते दोलायत्रे पचेत् , जीर्णे जीर्णे पुनः पुनः कुर्यात् ; एवं रागग्राही भवति । ततो द्वात्रिंशदंशं ग्रासं दद्यात् । पुनश्चारणं जारणं मर्दनं स्वेदनं च कृत्वा, तृतीयो ग्रासः षोडशांशेन भागेन; तत्रापि पूर्ववत्कृत्वाऽष्टमांशभागो देयः । चारणादि पूर्ववत् । एवं ग्रासचतुष्टयं दत्त्वा कच्छपयन्त्रण जारणां कुर्यादिति । बिडमूर्वाधोऽष्टमांशेन प्रक्षिप्य ततोऽर्धाशो ग्रासः, तत्रापि पूर्ववत् । ततः समः, तत्रापि पूर्ववत् । एवं समं समं दत्त्वा पूर्ववजारणादि षड्गुणपर्यन्तं कार्यम् । रागग्रहणं तु पूर्वव कार्यम् । एवं द्वन्द्वयोगेन सत्त्वस्वर्णादिलोहबीजानां जारणं कर्तव्यम् । मात्रायुक्तिरपि पूर्ववत्कार्या । ततः पक्वबीजेन सिद्धबीजेन वा सारणात्रयं कुर्यात् । पुनः कच्छपयन्त्रेण तप्तखल्वे मर्दनेन जारयेत् । ततो मुखबन्धनं शोधनं रसबन्धनं क्रामणं च पूर्ववत् कुर्यात् । तारस्याप्टानवतिभागाः वर्णस्यैको भागो वेधकस्यैको भाग इति प्रकारस्तु सर्वत्र ज्ञेयः । चन्द्रार्कयोर्मिलितयोर्वेधो रसरत्नाकरे-“ताप्येन मारयेछुल्वं तथा गन्धेन मारितम् । तत्तानं वाहयेनागे मूषामध्ये धमन् धमन् ॥ शनैः शतगुणं यावत्ताप्यचूर्ण क्षिपन्क्षिपन् । तं नागं वाहयेत्स्वर्णे द्वात्रिंशद्गुणितं क्रमात् । म्वर्णशेपं तु तद्बीजं समांशं जारयेद्रसे । अनेनैव तु बीजेन सारयेज्जारयेत्पुनः ॥ पूर्ववत्कमयोगेन बन्धनान्तं च कारयेत् । क्रामणेन समायुक्तं सहस्रांशेन योजयेत् ॥ चन्द्रार्क जायते स्वर्ण देवाभरणमुत्तमम्" इति । पक्वबीजं तु,-"स्वर्ण तानं समं शुद्धं दावितं लेपयेत्पुनः । साम्लेन ताप्यकल्केन धमेत्स्वर्णावशोषितम् ॥ एवं दशगुणं वाह्यं तानं वा तुत्थसत्वकम् । पक्कबीजमिति ख्यातं स्वर्णशेषं समाहरेत्" इति । एवं पक्वबीजान्य न्याप्यनेकविधानि कार्याणीत्यादि ग्रन्थान्तरतो ज्ञेयम् । तदुक्तं रसरत्नाकरे,-"वर्ण नागं समावर्त्य माषमात्रं तु घर्षयेत् । तप्तखत्वे ततस्तस्मिन् पलमेकं रसं क्षिपेत् ॥ सिद्धमूलीद्रवं दत्त्वा मर्दयेत्काजिकैदिनम् । घर्मे वा तप्तखल्वे वा ततो ग्रासं तु दापयेत् ॥ चतुःषष्ट्यंशकं पूर्व द्वन्द्वसत्त्वं सुभावितम् । दत्त्वा धर्मे दिनैकं च चारणायन्त्रके क्षिपेत् ॥ सजम्बीरे दिनं धर्मे धारितश्चरति ध्रुवम् । त्रिक्षारं पञ्चलवणमम्लवर्गः स्नहीपयः ।। गोमूत्रैर्गालयेत्सर्व तेन वस्त्रं घनं दिहेत् । तन्मध्ये धारितं सूतं बद्धवा भूर्जेन वेष्टयेत् । सिद्धमूल्यम्लसंयुक्त
१ स्थापयित्वा' पा०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144