Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 27
________________ रसपद्धतिः। १५ . स्थितो रसो मुखयुक्तो भवतीति केचित् । तुत्थमरिचयवक्षारत्रिलवणयुक्तकाञ्जिकमध्ये खेदन मिति वा ॥ १३ ॥ संदीपनमाहकासीसक्षितिशिग्रुवीजलवणक्षारासुरीषट्कटुखर्वल्लीजलपिप्पलीतुषजलस्वेदेन तं दीपयेत् । टी०-कासीसं पुष्पकासीसं, क्षितिशिबीजं कटुशोभाञ्जनस्य बीजं, लवणमत्र सैन्धवं, क्षारष्टकणक्षारः, अथवा यवक्षारादिकं, आसुरी राजिका, षटकटु पिप्पलीपिप्पलीमूलेत्यादि, खर्वल्ली आकाशवली, जलपिप्पली तोयपिप्पली; एतेषां कल्कं दत्त्वा तुषजलेन पूर्ण घटे दोलायन्त्रे खेदेन तं रसं दीपयेत् । तदुक्तम्"खेदयेदासवाम्लेन वीर्यतेजोभिवृद्धये । यथोपयोग स्वेद्यः स्यान्मूलिकानां रसेषु च ॥ कर्कोटीफणिनेत्राभ्यां वृश्चिकाम्बुजमार्कवैः । समं कृत्वाऽऽरनालेन स्वेदयेत्तद्दिनत्रयम्”-इति । आसवाम्लं तु,-"त्रिक्षारसिन्धुखगभूशिखिशिग्रुराजीतीक्ष्णाम्लवेतसमुखैलवणोषणाम्लैः । नेपालताम्रदलशोषितमारनाले साम्लासवाम्लमुदितं रसदीपनं तत्"-इति । रसमूलिकाश्च,-"सर्पाक्षी क्षीरिणी वन्ध्या मत्स्याक्षी शङ्खपुष्पिका। काकजवा शिखिशिखा ब्रह्मदण्ड्याखुपर्णिका ॥ वर्षाभूः कञ्चुकी दूर्वा सैर्यकोत्पलशिम्बिकाः । शतावरी वज्रलता वज्रकन्दोऽग्निकर्णिका ॥ मण्डूकपर्णी पाताली चित्रको ग्रीष्मसुन्दरः । काकमाची महाराष्ट्री हरिद्रा तिलपर्णिका ॥ श्वेतार्कशिअधत्तूरमृगदूर्वारसाङ्कुशाः । रम्भा रक्ता च निर्गुण्डी लज्जालुः सुरदालिका ॥ जाती जयन्ती श्रीदेवी भूकदम्बः कुसुम्भकः। कोशातकी नीरकणा लागली कटुतुम्बिका। चक्रमर्दोऽमृताकन्दः सूर्यावर्तेषुपुखिके । वाराही हस्तिशुण्डी च प्रायोऽमू रसमूलिकाः ॥रसस्य भावने स्वेदे मूषालेपे च पूजिताः" इति । रसरत्नाकरस्तु-"स्वणपुष्पी च कासीसं मरीचं राजिका मधु । क्षीरकन्दो जया कन्या विजया गिरिकर्णिका ॥ काकजङ्घा शङ्खपुष्पी पातालगरुडी कणा । वन्ध्या कर्कोटकी वह्निर्व्यस्तं वाथ समस्तकम् ॥ पेषयेदम्लवर्गण तवैर्मदयेद्रसम् । दिनान्ते बन्धयेद्वस्त्रे दोलायन्त्रे व्यहं पचेत् ॥ पूर्वद्रावैर्घटे पूर्ण ग्रासार्थी जायते रसः" इति । अत्र सर्वत्र स्वेदसंन्यासौ कायौँ । तल्लक्षणं तु प्रागुक्तम् । इति दीपनम् ॥ संस्कारैरिति संस्कृतोऽष्टभिरसौ निष्कञ्चको निर्मलः सूतः सर्वरसेष्वकुण्ठमहिमा स्यादष्टमांशोषितः ॥ १४ ॥ इदानीं शुद्धस्य फलकथनद्वारा संस्कारोपसंहारमाह-संस्कारैरिति ।-इति अष्टभिः संस्कारैः संस्कृतोऽसौ सूतोऽष्टमांशोषितः स्यात् अष्टमांशेन उषितः उर्वरितः। कीदृशः ? निष्कञ्चकः निर्गताः सप्तकञ्चकाः यस्मात् । निर्मलः मलो दोषस्तद्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144