Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः।
२७
टी०-एतस्य दलानि वङ्गपत्राणि, शणपट्टोपरिवर्तिनि अतसीपिण्याकचूर्णे, क्रमशः कीर्णानि कृला पूर्व शणपट्टोपरि अतसीपिण्याकचूर्ण तदुपरि वङ्गपत्राणि पुनस्तदुपरि शणपट्टं तदुपरि अतसीपिण्याकचूर्ण तदुपरि वङ्गपत्राणि इत्येवंक्रमेण स्थापन कार्य एवं यवान्यामपि क्रमः कार्यः । पश्चाद्रज्ज्वा सुदृढं बवा, गजाह्वे पुढे पचेत् । तत्र पुनः त्रपुण्यपक्के स्थिते अयमेव क्रमः पुनः कार्यः ॥ ३४ ॥
शेषाणां विकृतात्मनां रजतवद्वा शुल्बवत्प्रक्रिया लोहानामरिलोहमारणमसत्कृत्यं तु नोक्तं मया । टी०-पित्तलकांस्यवर्तानां लोहानां विकृतात्मनां परस्परसंसृष्टानां रजतादिवत् प्रक्रिया कार्या । तत्र पुटे पूर्वोक्तक्रम एव कार्यः । केचन अरिलोहेन लोहस्य मारणमिच्छन्ति, तन्मतं दूषयति-लोहानां अरिलोहमारणमसत्कृत्यं भवति 'अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम्' इति वचनात् ॥
सर्वेषां मतमेतदेव भिषां यत्तारसीसोद्भवं पार्थक्येन गुणावहं न भसितं प्रोक्तोपलोहस्य च ॥ ३५॥ प्रसंगसंगात् केषांचिद्भस्मानि प्रत्येकमेव प्रयोज्यानि, केषांचित्संमिश्रयिला प्रयोज्यानीत्याह-सर्वेषामिति । सर्वेषां भिषजां मते तारसीसोद्भवं भस्म पार्थक्येन गुणावहं न भवति । तथा उपलोहानां पित्तलकांस्यादीनां यद्भसितं तत्पार्थक्येन प्रयोगे योज्यं न भवति, अगुणवात् ; अर्थादितरेषां लोहताम्रवङ्गसुवर्णानां पृथग्भस्म प्रयोज्यमित्युक्तं भवति ॥ ३५ ॥
इदानीं पक्वानामपक्कानां च लोहानां गुणान्वक्तुं प्रथमतः पक्कापक्वस्य सुवर्णस्य गुणानाह
पकं हेम रसायनं विदुरथापकं तु सद्यो विषप्रध्वंसि क्षयिबृंहणं वमिहरं वयं ज्वरिभ्यो हितम् । आलीढेषु विमृश्य वादिभिरुपक्षिप्तोऽस्ति दोषो गुणः प्रोक्तः प्राकृतवैकृतेषु तु मया शेषेष्वपकेषु च ॥३६॥ टी०-रसायनं वयसः स्थापनं, “यजराव्याधिविध्वंसि भेषजं तद्रसायनम्" इति वचनात् । अथ स्वर्णभस्मगुणनिरूपणानन्तरं; अपक्कं पाषाणादिना घर्षणेन द्रवरूपं, अथवाऽतिसूक्ष्मवरकाख्येन सुवर्णपत्रेण मधुना सह गृहीतं यत् सुवर्णं तत्सद्यो विषन्नं भवति, क्षयिणां धातुवृद्धिकरं, वान्तिनाशकं, कान्तिजनकं, ज्वरिणां च हितं
१ अत्र 'किं कार्य भसितस्य चेच्छृणु रसादिष्वेव योज्यं हि तत्ताडक्सद्वचनानुरोधबलतः प्रोक्ता व्यवस्था इति' इति आयुर्वेदप्रकाशे पाठान्तरमुपलभ्यते, तदेव समीचिनमिति भाति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144