________________
रसपद्धतिः।
२७
टी०-एतस्य दलानि वङ्गपत्राणि, शणपट्टोपरिवर्तिनि अतसीपिण्याकचूर्णे, क्रमशः कीर्णानि कृला पूर्व शणपट्टोपरि अतसीपिण्याकचूर्ण तदुपरि वङ्गपत्राणि पुनस्तदुपरि शणपट्टं तदुपरि अतसीपिण्याकचूर्ण तदुपरि वङ्गपत्राणि इत्येवंक्रमेण स्थापन कार्य एवं यवान्यामपि क्रमः कार्यः । पश्चाद्रज्ज्वा सुदृढं बवा, गजाह्वे पुढे पचेत् । तत्र पुनः त्रपुण्यपक्के स्थिते अयमेव क्रमः पुनः कार्यः ॥ ३४ ॥
शेषाणां विकृतात्मनां रजतवद्वा शुल्बवत्प्रक्रिया लोहानामरिलोहमारणमसत्कृत्यं तु नोक्तं मया । टी०-पित्तलकांस्यवर्तानां लोहानां विकृतात्मनां परस्परसंसृष्टानां रजतादिवत् प्रक्रिया कार्या । तत्र पुटे पूर्वोक्तक्रम एव कार्यः । केचन अरिलोहेन लोहस्य मारणमिच्छन्ति, तन्मतं दूषयति-लोहानां अरिलोहमारणमसत्कृत्यं भवति 'अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम्' इति वचनात् ॥
सर्वेषां मतमेतदेव भिषां यत्तारसीसोद्भवं पार्थक्येन गुणावहं न भसितं प्रोक्तोपलोहस्य च ॥ ३५॥ प्रसंगसंगात् केषांचिद्भस्मानि प्रत्येकमेव प्रयोज्यानि, केषांचित्संमिश्रयिला प्रयोज्यानीत्याह-सर्वेषामिति । सर्वेषां भिषजां मते तारसीसोद्भवं भस्म पार्थक्येन गुणावहं न भवति । तथा उपलोहानां पित्तलकांस्यादीनां यद्भसितं तत्पार्थक्येन प्रयोगे योज्यं न भवति, अगुणवात् ; अर्थादितरेषां लोहताम्रवङ्गसुवर्णानां पृथग्भस्म प्रयोज्यमित्युक्तं भवति ॥ ३५ ॥
इदानीं पक्वानामपक्कानां च लोहानां गुणान्वक्तुं प्रथमतः पक्कापक्वस्य सुवर्णस्य गुणानाह
पकं हेम रसायनं विदुरथापकं तु सद्यो विषप्रध्वंसि क्षयिबृंहणं वमिहरं वयं ज्वरिभ्यो हितम् । आलीढेषु विमृश्य वादिभिरुपक्षिप्तोऽस्ति दोषो गुणः प्रोक्तः प्राकृतवैकृतेषु तु मया शेषेष्वपकेषु च ॥३६॥ टी०-रसायनं वयसः स्थापनं, “यजराव्याधिविध्वंसि भेषजं तद्रसायनम्" इति वचनात् । अथ स्वर्णभस्मगुणनिरूपणानन्तरं; अपक्कं पाषाणादिना घर्षणेन द्रवरूपं, अथवाऽतिसूक्ष्मवरकाख्येन सुवर्णपत्रेण मधुना सह गृहीतं यत् सुवर्णं तत्सद्यो विषन्नं भवति, क्षयिणां धातुवृद्धिकरं, वान्तिनाशकं, कान्तिजनकं, ज्वरिणां च हितं
१ अत्र 'किं कार्य भसितस्य चेच्छृणु रसादिष्वेव योज्यं हि तत्ताडक्सद्वचनानुरोधबलतः प्रोक्ता व्यवस्था इति' इति आयुर्वेदप्रकाशे पाठान्तरमुपलभ्यते, तदेव समीचिनमिति भाति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com