SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २६ रसपद्धतिः । सप्तवारं, शरावसंपुटे स्थापयित्वा करीषवह्निपुटितं करीषं शुष्कगोमयं तस्य वह्निना गजपुटे पुटितं, प्रान्तेऽतिमन्दं पुटितं भस्म स्यात् ॥ ३१ ॥ - अमुमेव क्रमं वङ्गेऽप्यतिदिशति - कन्यामूलविघट्टनारहितया वङ्गोऽपि भस्मीभवेपूर्वप्रक्रिययैव मानसशिलास्थाने तु दत्तालया ॥ ३२ ॥ टी० - कन्यामूलेन विघट्टनं वङ्गे नास्ति, मनःशिलास्थाने हरितालदानं, पूर्वप्रक्रियया भावनपुरनप्रक्रियया वङ्गो भस्मीभवेत् ॥ ३२ ॥ प्रकारान्तरेण वङ्गमाह व घर्षणकाल एव भिषजः पीतायवानीरजो न्यस्यन्ति क्षणशः शिलाजतु तथा भस्माऽप्यपामार्गजम् । टी० - घर्षणकाले पलाशदण्डादिना घर्षणे क्रियमाणे, पीता हरिद्रा, यवानी यवसाह्या, अनयो रजः; क्षणशः क्षणं क्षणं यावत्पिष्टिर्भवति तावद्भिषजो न्यस्यन्ति क्षिपन्ति । भस्मनः शुद्ध्यर्थं शिलाजतु क्षिपन्ति । शिलाजतुश्चात्र श्वेतो ग्राह्यः । तथेति अपामार्गजं भस्म घर्षणकाले वा क्षिपन्ति । अत्र भस्म एकीकृत्य, तदुपरि शरावं दत्त्वा, तीव्रतरं वह्निं कृत्वा, यथाऽङ्गारवर्णं भवति तथा कर्तव्यं; पश्चात्स्वाङ्गशीतं कुर्यात् ॥ - प्रकारान्तरेण वङ्गभस्माह लिखा रङ्गदलान्यरुष्क पिशितैर्भाण्डे तु चिश्चात्वचो भृत्याः संस्तरसंस्थितानि पुटतः कुर्वन्ति भस्मान्यपि ॥ ३३ ॥ टी० - लिप्स्वेति रङ्गदलानि वङ्गदलानीत्यर्थः, अरुष्कपिशितं भल्लातोपरिमांसतैलं, तेन लिवा, पश्चाचिञ्चात्वग्भस्मसंस्तरस्थितानि पुटतः भस्मानि कुर्वन्ति । संस्तरस्तु भस्म दत्त्वा तदुपरि पत्रं तदुपरि भस्म तदुपरि पत्रमेवं क्रमेण कर्तव्यः । पुटं चात्र गजसंज्ञकमेव । वङ्गनागयोर्भस्म अष्टमांशतालकशिलाभ्यां युक्तं पलाशकन्यारसैर्मर्दयित्वा चक्रिकां कृत्वा मृत्संपुटान्तर्गतं भस्ममध्ये संरुध्य गजपुटत्रयेण निरुत्थं भस्म भवति । दश पुटानि दद्यात् । खर्परे अपामार्गादिरक्षां दत्त्वा तन्मध्ये वनक्रिकां दत्त्वा तदुपरि रक्षां प्रभूतां दत्त्वा पुटमध्ये दद्यात् ॥ ३३ ॥ प्रकारान्तरेण वङ्गभस्माह द्वैतस्य दलानि विंशतिगुणे पिण्याकचूर्णेऽतसीसंभूते शणपट्टवर्तिनि पुनस्तद्वद्यवान्यामपि । कीर्णानि क्रमशो निवध्य सुदृढं रज्ज्वा गजाडे पुढे स्युर्भस्म, पुणि स्थिते तु पुटतोऽपकेऽयमेव क्रमः ॥ ३४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy