________________
रसपद्धतिः।
लिप्त्वा ताम्रदलानि सम्यगनया भाण्डे पद्यामकं यत्राध्यायसमुक्तशास्त्रविधिना तत्स्वाङ्गशीतं हरेत् ॥२९॥ तत्तद्रोगहरानुपानसहितं तानं द्विवल्लोन्मितं संलीढं परिणामशूलमुदरं पाण्डु च गुल्मं ज्वरम् । गुल्मप्लीहयकृत्क्षयाग्निसदनं मेहं च मूलामयं दुष्टां च ग्रहणी हरेद्भवमिदं तत्सोमनाथाभिधम् ॥ ३० ॥ टी०-तानं द्विविधं-म्लेच्छं नेपालकं च; तत्र कृष्णाभासं म्लेच्छं, अतिशोणं मृदुलं च नेपालम् । तत्र ताम्रदोषाः-उत्क्लेदभेदभ्रमदाहमोहाः खलु दुहराः, अतः शोधनं सम्यकार्य तानि च ग्रन्थान्तरतः संशोधनानि ज्ञेयानि। सोमनाथप्रकारस्तु ग्रन्थान्तरे यथा,-"शुल्बतुल्येन सूतेन बलिना तत्समेन च । तदर्धाशेन तालेन शिलया च तदर्धया ॥ विधाय कजलीं श्लक्ष्णां भिन्नकजलसंनिभाम् । यन्त्राध्यायविनिर्दिष्टगर्भयत्रोदरान्तरे ॥ कजली ताम्रपत्राणि पर्यायेण विनिक्षिपेत् । प्रपचेद्यामपर्यन्तं खाङ्गशीतं समुद्धरेत्”–इति । केचन मारितं ताम्रमम्लभावितं सूरणकन्दे दत्त्वा उपरि मृल्लेपं कृला गजपुटे पचेदिति वदन्ति । इति ताम्रम् ॥२९॥३०॥
अथ सीसकम् । सीसं काष्ठकशानुना पटुघटभ्राष्ट्रे द्रुतं कन्यकामूलघुष्टमिभाशनार्कबहुपाद्ब्रह्मद्रुमूलायसाम् । दण्डेनान्यतमस्य यावदवधि स्वात्पिष्टिका तत्पुनः सिन्दूरारुणमुद्धृतं च शिलया वखंशया योजितम् ॥ ३१॥ कन्यावारिविभावितं पुनरपि प्राक्प्रक्रियोपाहृतं त्रिः स्याद्भस करीषवह्निपुटितं प्रान्तेऽतिमन्दं सकृत् । टी-पटुघटभ्राष्ट्रे दृढघटखर्परे काष्टाग्निना द्रुतं सीसं पचेत् । तत्र कन्यामूलं दत्त्वा पधादिभाशनः पिप्पलः, अर्को रुपिका, बहुपान्यग्रोधः, ब्रह्मगुः पलाशः, एतेषां मूलानि, अयः लोहं, तेषामन्यतमस्य दण्डेन दा यदवधि पिष्टिका स्यात् तदवधि घृष्टं कुर्यात् । सिद्धस्य वर्णमाह-तत्पुनः सिन्दूरारुणं भवति । ततः उद्धृतं तस्मात्पात्रानिष्काशितं, अष्टमांशया मनःशिलया एकीकृतं, कन्यावारिणा मर्दितं
१ अस्याग्रे एतस्या एव खल्वे पिष्टिं विधाय काचकूप्यां वालुकायत्रे द्वादशप्रहरं तीव्र वहिं दत्त्वा रसभस्माकृति तानं जायते' इत्यधिकः पाठः कचिदुपलभ्यते ।
रस०३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com