SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः। ग्भस्मना संपूरिते भाण्डे, अरन्ध्रिणि छिद्रादिरहिते, ताम्रसंचयं दत्त्वा, तदुपरि पुनः भस्म पूर्ण कृत्वा, उपरि शरावं मृत्कर्पटानि च दत्त्वा, चुयामारोप्य प्रहरचतुष्टयपर्यन्तमग्निं तीव्र तीव्रतरं तीव्रतमं च दत्त्वा सकृन्नियन्ते। शुचिरत्र वह्निः ॥ २६ ॥ प्रकारान्तरेण ताम्रभस्माहत्रिक्षारैः पटुभिः स्नुगर्कजनुषा क्षीरेण पिष्टैर्यथालाभं चाम्लगणद्रवेण दशधा ध्माता विलिप्यानले । शेफालीसलिलेऽम्लवर्गसलिले निर्वापिता भूरिशः पूर्वप्रक्रियया त्रिगव्यललिता भस्म स्युरकेच्छदाः ॥२७॥ टी-पूर्व गालितताम्रपत्राणि कृत्वा, त्रिःक्षारैः स्वर्जियवलोणारक्षारैः अथवा रहणक्षारेण, पटुभिः सैन्धवादिभिः पञ्चलवणैः, स्नुह्यकक्षीरेण मर्दितैस्तथाऽम्लगणेन यथालाभमेकद्विभ्यादिप्राप्तगणेन मर्दितैलित्वा पश्चादनले ध्मातानि शेफालीसलिले निर्वापयेत् । अथवाऽम्लवर्गसलिले निर्वापितानि पुनः पुनः एवं दशधा मात्वा निर्वापितानि, पूर्वप्रक्रियया संस्तरप्रक्रियया, भस्म कृत्वा, पश्चात्रिगव्येन दुग्धदधितेन भावयित्वा संप्रदायादेकं पुटं दत्वा, अर्कच्छदास्ताम्रपत्राणि भस्म स्युः ॥२७॥ प्रकारान्तरेणाहयद्वा तानि समेन गन्धकशिलातालेन गन्धेन वा शिष्टेन द्वितयेन वाऽम्लसलिलैः पिष्टेन यैः कैरपि । यद्वा प्रस्तरगन्धकेन निबिडं लिप्तानि भाण्डान्तरे क्षिप्त्वा संपुटितानि केवलमहःपकानि जीवन्ति न ॥ २८ ॥ टी-शुद्धानि ताम्रपत्राणि समेन गन्धकशिलातालेन लिप्वा, अथवा गन्धकेनैव लिवा, अथवा शिलाहरितालेनैव लिप्त्वा, येन केनचिदम्लेन लेपनं कृत्वा, पूर्ववखण्डिकामध्ये दत्वा पाकं कुर्यात् । “स्थूलभाण्डं तुषापूर्ण मध्ये मूषासमन्वितम् । बहिना विहिते पाके तद्भाण्डपुटमुच्यते"-इति ज्ञेयम् । अथवा प्रस्तरगन्धको गन्धकविशेषः, तेन येन केनचित्प्रमाणेन निबिडतराणि लिप्त्वा, पूर्ववत् भाण्डान्तरे क्षिप्त्वा संपुटितं कृत्वा, अहःपक्वानि एकेन अहा पक्कानि, जीवन्ति न नियन्ते । अन तु पारदस्य सर्वथा अदानमेव, परन्तु वान्तिभ्रान्तिविवर्जितानि जायन्ते इति विशेषः। नेपालं समरुद्रबीजमसुरस्तुल्यस्तयोस्तालकोऽसार्थोऽस्यार्धशिलां विधाय विधिना श्लक्ष्णां परां कन्जलीम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy