________________
रसपद्धतिः।
२३
पकं सूर्यपुटैश्चतुर्दशदिनैरेरण्डपत्रावृतं भस स्यागृहधूमधूसररुचि प्राग्धान्यराशिस्थितम् ॥ २५॥ टी-शाणेन चक्रविशेषेण पतितं तीक्ष्णं, तेनैव प्रकारेण पतितं कान्तं, लेलीतको गन्धकः, दत्तः अङ्ग्रथंशः रसः पारदो यस्मिन्नेवंभूतं, विमर्च पूर्व शुष्कमेव यावद्धमनिर्गमं मर्दयिला, पश्चात्सलिलैः काजिकादिभिः कन्यारसैर्वा, पश्चाद्धनवरसेन, अद्रिकर्णी गिरिकर्णी तस्याः स्वरसैविमर्य; सूर्यपुटैः पक्वं चतुर्दशदिनैश्चतुर्दशभावनाभिः, पश्चादेरण्डपत्रावृतं गोलकं कृत्वा धान्यराशिस्थितं, गृहधूमधूसररुचि अलिन्दधूमतुल्यं भस्म स्यात् । अत्र सूर्यपुटानि प्रातःकालादारभ्य सन्ध्याकालपर्यन्तं शुष्कमर्दनेन संपादनीयानि, भावना तु संध्यायां यथा आर्द्रता संपद्यते तथा कार्या । अत्र भावनायां नियमो नास्ति, मर्दनस्यैव भस्मसंपादकत्वात् । अथ लोहत्रयस्य भेदाः । तेषु मुण्डस्य त्रयो भेदाः-मृदु कुण्ठं कुठारं चेति; तीक्ष्णस्य खरसारहुन्नालताराववाजरकाललोहानीति षड्नेदाः; तथा भ्रामकचुम्बककर्षकद्रावकरोमकभेदात्कान्तस्य पञ्च भेदाः । एतेषां लक्षणानि ग्रन्थान्तरतोऽनुसन्धेयानि । एकमुखं द्विमुखं त्रिमुखं चतुर्मुखं पञ्चमुखं सर्वतोमुखमिति तेषां कान्तानामुत्तमाधमत्वं ज्ञेयम् । लक्षणं तु नाम्नैव व्याख्यातम् । भ्रामणादिकं तु अन्यलोहस्यैव; परीक्षा शुद्धिश्च पूर्व प्रतिपादिता। अन्ये भस्मप्रकारा ग्रन्थान्तरतोऽनुसन्धेयाः। "जम्बीररससंयुक्ते दरदे तप्तमायसम् । वहुवारं विनिक्षिप्तं म्रियते नात्र संशयः ॥ तप्तं क्षाराम्लसंयुक्तं शशरक्तेन भावितम् । कान्तलोहं भवेच्छुद्धं सर्वदोषविवर्जितम् ॥ सुरदालीभवं भस्म नरमूत्रेण गालितम् । त्रिसप्तवारं तत्क्षारावापात्कान्तद्रुतिर्भवेत् ॥ देवदाल्या द्रवैर्भाव्यं गन्धकं दिनसप्तकम् । तस्य प्रवापमात्रेण लोहास्तिष्ठन्ति सूतवत् ॥ अक्षाङ्गारैर्धमेत्किटं लोहजं तु गवां जलैः । सेचयेत्तप्ततप्तं च सप्तवारं पुनः पुनः ॥ श्रेष्ठाजलैस्ततो भाव्यं पुटानि दश पञ्च च। त्रिफलामधुसंयुक्तं सर्वरोगेषु योजयेत्" इति । लोहनिरूपणम् ॥ २५ ॥
अथ ताम्रभस्मप्रकारमाहअयंशेन रसेन तुल्यतुलया लेलीतपिष्ट्या पुनलिप्वा ताम्रदलानि संस्तरचितान्यर्कस्य पक्कच्छदैः। भाण्डेरन्ध्रिणि तिन्तिणीविटपकत्वम्भस्मसंपूरिते घौकं परिपाचितानि शुचिना तीव्र नियन्ते सकृत् ॥२६॥
टी-ताम्रतुल्यगन्धकेन चतुर्थाशपारदेन कृतकज्जलिकया ताम्रदलानि लिप्त्वा, एकमधः अर्कपत्रं दत्त्वा तदुपरि लेलीतचूर्णं दत्त्वा तदुपरि पत्रं तदुपरि पुनर्लेलीतकपिष्टिस्तदुपरि पक्कार्कपत्रं, एवं संस्तरेण स्थापितानि ताम्रपत्राणि, अम्लिकात्व
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com