SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २२ रसपद्धतिः। सहज खनिजं कृत्रिमं च। हिमाचलादिभूमौ यजायते तत्खनिजं, रामपादुकाधो निक्षिप्तं तत्कृत्रिमं, कैलासादिस्थं सहजम् । एतेषां लक्षणानि ग्रन्धान्तरतोऽनुसर्तव्यानि । अत्र शुद्धिस्तु पूर्वोक्तैव । अस्य ताम्रसीसादिमिश्रत्वादशुद्धस्य शुद्धिः कर्तव्या। तदुक्तम् ,-"तारं त्रिवार निक्षिप्तं तैले ज्योतिष्मतीभवे । खपरे भमचूर्णाभ्यां परितः पालिका चरेत् ॥ तत्र रूप्यं विनिक्षिप्य समसीससमन्वितम् । जातसीसक्षयं यावद्धमेत्तावत्पुनः पुनः ॥ इत्थं संशोधितं रौप्यं योजनीयं रसादिषु" इति । अस्यैव निरुत्थकरणार्थ शुद्धमाक्षिकस्नुहीक्षीराभ्यां लेपयित्वाऽन्धमूषायां दत्त्वा चतुर्दशपुटानि देयानीसके । इतिप्रकारस्तु,-"शतधा नरमूत्रेण भावयेद्देवपालिकाम् । तच्चूर्णवापमात्रेण द्रुतिः स्यात्स्वर्णतारयोः” इति । रूप्यस्यापक्वस्य प्रयोगो नास्तीति वक्ष्यति । भस्मापि ताम्रादिवन प्रयुज्यते व्यवहाराभावात् श्वेतकुष्ठकर्तृत्वेन लोकप्रसिद्धेश्व, रसेषु प्रयोगस्तु प्रसिद्ध एव ॥ २३ ॥ अथ लोहस्य भस्मादिप्रकारमाहशाणाकृष्टमयोरजस्त्रिदिवसं पिष्टं वरावारिणा यद्वा रक्तपुनर्नवादलरसैयद्वाद्रिकीरसैः। चाङ्गेरीसलिलैस्तथैव सलिलैर्वा नीरवानीरजैस्त्रिंशदन्तिपुटैः परैर्जलतरं स्याद्भस्म जम्बूप्रभम् ॥ २४ ॥ , टी-अयोरजः लोहचूर्णम् । शाणः शस्त्रोत्तेजकं चक्रं, तस्माञ्चुम्बकपाषाणादिना निःसारितम् । वरा त्रिफला तस्याः कषायः, रक्तपुनर्नवा वर्षाभूस्तज्जलैर्वा; अद्रिकर्णी गिरिकर्णी, तज्जलैर्वा; तथा चाङ्गेरी अम्लपर्णी तज्जलैर्वा; नीरवानीरो जलवेतसः, तद्रसैर्वा; त्रिदिवसं पिष्टं त्रिवार भावितं; दन्तिपुरैर्गजपुटैः पकं भस्म स्यात् । कीदृशं? जम्बूप्रभं जलतरं च । अतोऽप्यधिकैरुत्कृष्टतरं भवति । यद्वाशब्देनैकैकोषध्या साधनीयमिति द्योत्यते। वाशब्दः समुच्चये। तेन एभिरेवौषधैर्यथा त्रिंशत्पुटानि भवन्ति, गजपुटानि प्रागुक्तानि, तथा भावना विधेयाः, भावनायां न नियमः, किं तर्हि पुटेष्वेव । त्रिदिवसशब्दस्तु भावनात्रयवाचकः नत्वेककदिनसाभ्यभावनावाचकः। इदं च त्रैलोक्यचिन्तामणिमृगाङ्कादौ प्रसिद्धं, एवं सर्वत्रापि ज्ञेयम् । पुटं तु भावनां विना नास्तीति यथासंभवं भावना देयाः ॥२४॥ गन्धकेन भस्मप्रकारमाहशाणोद्दान्तमयस्तु कान्तमथवा क्षिप्त्वाऽर्धलेलीतकं दत्ताञ्जयशरसं विमद्य सलिलैभृङ्गाद्रिकीरसैः । . १ 'शुद्ध' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy