SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः । २१ रणं तदा गजपुटानि ज्ञेयानि । तथा ताम्रादिमारणे काष्ठादिजन्योऽभिपाको ज्ञेयः । तदुक्तम्, –“रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् । नेष्टो न्यूनाधिकः पाकः सुपाकं हितमौषधम् ॥ लोहादेरपुनर्भावो गुणाधिक्यं ततोऽय्यता । न चाप्सु मज्जनं रेखापूर्णता पुटतो भवेत् । पुटाद्रागो लघुत्वं च शीघ्रं व्याप्तिश्च दीपनम् ॥ जारितादपि सूतेन्द्रालोहानामधिको गुणः । ऊर्ध्वं षोडशिकां पत्रैस्तुषैर्वा गोवरैः पुटम् ॥ यत्र तल्लावकाख्यं स्यालद्रव्यस्य साधने । पुटं भूमितले यत्तद्वितस्तिद्वितयोच्छ्रितम् ॥ तावच तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटम् । यत्पुटं दीयते भूमावष्टसंख्यवनोपलैः ॥ बद्ध्वा सूतकभस्मार्थं कपोतपुटमुच्यते । गोष्टान्तर्गौखुरक्षुण्णं शुष्कं चूर्णि - तगोमयम् ॥ तोवरपुटं प्रोक्तम् " -- इति । " निम्ने विस्तरतः कुण्डे द्विहस्ते चतुर | वनोपसहस्रेण पूरिते पुटनौषधम् ॥ क्रौत्र्यां रुद्धं प्रयत्नेन पिष्टिको परि विन्यसेत् । वनोपलसहस्रार्धं कौञ्चिकोपरि विन्यसेत् । वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतम्” - इति । राजहस्तप्रमाणेनेदमेव गजपुटमित्युच्यते । केचित्तु गजप्रमाणमूर्ध्वाधः पुटं गजपुटमिति । सर्वत्र, – “अनुक्ते पुटमाने तु साध्यद्रव्यबलाबलात् । पुटं विज्ञाय दातव्यमूहापोहविचक्षणैः " -- इति । एतानि पुढानि यत्र यत्रोपयुतानि तत्र तत्र विचार्य देयानि । एवं कुम्भपुटमपि ज्ञेयम् । “राजहस्तप्रमाणेन चतुरस्रं चतुर्भकम् ॥ पूर्ण चोपलसाटीभिः कण्ठावध्यथ विन्यसेत् । विन्यसेत्कुमुद तत्र पुनद्रव्य पूरिताम् ॥ पूर्वच्छगणतोऽर्थानि गिरिण्डानि विनिक्षिपेत् । एतद्गपुढं प्रोक्तं महागुणविधायकम् ॥ इत्थं चारत्निके कुण्डे पुढं वाराहमुच्यते " - इति । एतानि लोहादौ सर्वत्र ज्ञेयानि । पाषाणमृत्तिकासत्त्वरूपत्वात्सत्त्वान्तरं नास्ति लोहानां, सुवर्णस्यैव रसायनत्वादतिरिक्तं रसायनं नास्ति । तदुक्तम्, – “रसस्य भस्मना वाथ रसेनालिप्य तद्दलम् । हिङ्गुहिङ्गुलसिन्दूरशिलाः साम्येन दापयेत् ॥ संमर्थ काञ्चनद्रावैर्दिनं कृत्वाऽथ गोलकम् । तं भाण्डस्य तले कृत्वा भस्मभिः परिपूरयेत् ॥ अभि प्रज्वालयेद्गाढं द्विनिशं खाङ्गशीतलम् । उद्धृत्य सावशेषे तु पुनर्देयं पुत्रयम् ॥ अनेन विधिना स्वर्ण निरुत्थं भस्म जायते । माक्षिकं नागचूर्ण च पिष्ट्वाऽर्कस्य रसेन हि ॥ हेमपत्रं पुटेनैव म्रियते क्षणमात्रतः”—–इति हेममारणम् । अन्ये च निरुत्थभस्मप्रकारा ग्रन्थविस्तर भीत्या नोक्ताः ॥— हिङ्गूलेन च माक्षिकेण बलिना तुल्येन जम्भाम्भसा लिसं रौप्यदलं पुटेन पटुना स्याद्भस मूषास्थितम् || २३ ॥ अथ रूप्यभस्मप्रकारमाह - हिङ्गुलेनेति । जम्भरसेन भावितेन हिङ्गुलेन तथा माक्षिकेण तथा बलिना गन्धकेन प्रलिप्तं रौप्यपत्रं कुम्भपुढेन सूकरपुटेन, पटुना महता वा; अत्र मूषास्थितं द्वित्रिवारपुटितं भस्म स्यात् । अत्र योगद्वयं हिङ्गुलेन माक्षिकेण, बलिना हिङ्गूलेन चेति; ग्रन्थान्तरसंवादात् । अत्र रूप्यं त्रिविधं - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy