SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २० रसपद्धतिः। क्रियया शनैर्लघुपुटैर्भस्मनी सुवर्णपारदयोः स्यातां भवेताम्। भस्मपरीक्षामाहजाम्बवनिमे कृष्णारुणे । जम्ब्वाः फलं जाम्बवम् ॥ २१ ॥भस्मप्रकारान्तरमाहयद्वा कजलिकोपलिप्तमसकृद्धेनो दलं काश्चनत्वमध्यस्थितमन्धपात्रपुटितं द्विःसप्त भसीभवेत् ॥ २२ ॥ टी०--हेम्नो दलं कण्टकवेध्यं कृत्वा, वारंवारं पुटे पुटे कजलिका वक्ष्यमाणा, तया लेपितं किंचिच्र्छष्कं कृत्वा, काश्चनत्वमध्यस्थ कोविदारत्वपिण्डान्तरे विद्यमानमन्धमूषागतं कृत्वा, चतुर्दशधा पुटितं भस्मीभवेत् । इदं पत्राणामेव ॥ २२ ॥ कजली विनैव भस्मप्रकारमाहस्थूलं वा लघु किंच काञ्चनदलं त्रिः काञ्चनारिद्रवप्रक्लिद्यन्मृतशृङ्गलिप्तपुटितं भस्मत्वमापद्यते । टी०–हेमपत्रं पृथु कण्टकवेध्यं वा कोविदारद्रवभावितं मृतगवादिशृङ्गे न्यस्तं संविलिप्तं त्रिःपुटितं भस्मत्वमापद्यते । अथवा मृतं भस्मीकृतं शुझं मृद्दारलं, तेन विलिप्तम् । अत्र लोहमारणं अरिलोहेन न कर्तव्यं, किन्तु रसगन्धौषधीभिः; तदुक्तं-"लोहाना मारणं श्रेष्टं सर्वेषां रसभस्मना । मूलिमिर्मध्यमं प्राहुः कनिष्ठ गन्धकादिभिः ॥ अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् । धातुमिर्गन्धकायैश्व निर्देवैमर्दितो रसः ॥ सुश्लक्ष्णकन्जलाभासः कज्जलीत्यभिधीयते"-इति । अत्र तु हेनो द्रुतिरपि ज्ञेया । तदुक्तम्-"चूर्ण सुरेन्द्रगोपानां देवदालीफलद्रवैः । भावितं शतशो हेम करोति जलवद्रुतम् ॥ मण्डूकास्थिवसाटङ्कहयलालेन्द्रगोपकैः । प्रतीवापेन कनकं सुचिरं तिष्ठति द्रुतम्" इति । सुवर्ण पञ्चधा-प्राकृतसहजवह्निसंभूतखनिसंभवरसेन्द्रवेधसंभवमेदात् ; तेषामप्राप्तेः प्रकृतानुपयोगाश्च यल्लोके प्रसिद्धं तञ्चतुर्दशवर्ण ग्राह्यं, षोडशवर्णं तु देवादिषु प्रसिद्धम् । ततो न्यूनवर्ण चेत्पत्राणि कण्टकवेध्यानि कृत्वा लवणभस्मकाञ्जिकं दत्त्वा पुनः पुटानि दद्यात् । अन्धमूषा तु संप्रदायात् वज्रमृत्तिकया वर्तुलां कृत्वा तन्मध्ये गोलकं दत्त्वोपरि खर्परचक्रिकां दत्त्वा सप्त मृत्कर्पटान् दत्त्वा कुर्यात् ; अथवा मूषाखर्परयोः सन्धौ काचटकणादिकं दत्त्वा धमनं कुर्यात् । अन्धमूषापुटे तु प्रागुक्ते । तदुक्तम् ,-"निर्वक्त्रगोलकाकारा पुटनद्रव्यगर्भिणी । गोलमूषेति सा प्रोक्ता सत्वरं द्रव्यरोधिनी"-इति । प्रथमपुटं च गोवरैरेव । द्वितीयादिपुटे पुनर्गन्धकं दत्त्वा निम्बूरसेन मर्दयित्वा कुक्कुटं लावकं वा पुटं दद्यात् । एवं यावद्विहितं महापुटपर्यन्तं कुर्यात् । इदं च सर्वत्र लोहादिमारणे ज्ञेयम् । यदि तु तीक्ष्णादिलोहमा१ 'किञ्चित्तप्तं' इति पा०। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy