SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः । १९ कान्तलक्षणमाह- कान्तं तवते न यत्र सलिले तैलं विसर्पेत्पयो - प्युच्चैस्त्वं न जहाति यत्र कटुतां निम्बच्छदाम्भस्त्यजेत् । टी० – यत्र सलिले तैलं न विसर्पेत्तत्कान्तं ब्रुवते, पयो दुग्धं, उच्चैस्त्वं पाकेन ऊर्ध्वशिखराकारत्वं न जहाति न त्यजति; यदपि द्वितीयं तल्लक्षणं; यत्र पात्रे निम्बपत्रोदकं तिक्ततां त्यजेत्तत्कान्तं ब्रुवते इति वाक्यार्थः । त काञ्जिकत्रयोस्तिलभवे तैले कुलित्थाम्भसि स्वाच्छुद्धं परिवर्त्य लोहमखिलं त्रिःसप्तधा वासितम् ॥ २०॥ लोहस्योपलोहस्य च शुद्धिमाह तक इत्यादि । तकं कालशेयं, काञ्जिकं धान्याम्लं, मूत्रं गोमूत्रं, तिलभवे तैले तिलतैले अतस्यादिनिवारणार्थ, कुलित्थाम्भः कुलित्थयूषः; एतेषु सुवर्णाद्यारभ्य घोषान्तं लोहं यथायोग्यं तप्तं तप्तं द्रवीकृतं च त्रिःसप्तधा एकविंशतिवारान् वासितं भावितं, परिवर्त्य आवर्त्य द्रुतमित्यर्थः । “क्रमान्निषेचयेत्तप्तं द्रावे द्वावे तु सप्तधा । खर्णादिलोहपत्राणां शुद्धिरेषा प्रकीर्तिता"इति वचनात्पत्राणामेव तापः वङ्गसीसयोर्द्रतयोर्निषेचनम् । अत्र सुवर्णस्य तैलादिसंस्कारो नास्तीति केचित् ; रूप्यप्रकरणे तस्योक्तत्वात् ॥ २० ॥ इदानीं लोहादीनां शुद्धिसत्त्वभस्मद्रुतिरसायनानि निरूप्यन्ते ॥ तत्र हेमभस्मप्रकार माह नः श्लक्ष्णदला जो द्विगुणितं ताग्रसस्तौ पुनजम्बीरेण विमर्दयेत्सकको यावद्भवेद्धता | प्रातः पर्युषितौ तु जम्भसलिले तावन्धमूषान्तरे मध्ये तत्समगन्धकं मृदुपुटे पक्त्वा शनैरुद्धरेत् ॥ २१ ॥ तौ त्रिः काञ्चनवारिणा विलुलितौ वा कन्यया सप्तभिः पूर्वप्रक्रिययैव जाम्बवनिभे स्यातां पुटे भस्मनी । , टी० - लक्ष्णदलं कण्टकवेध्यं तस्माद्रजचूर्णं तद्विगुणितं तादृक्छुद्धः रसः सोऽपि द्विगुणितः; करको गारपाषाणः, तेन सह वर्तमानौ, जम्बीररसेन मर्द - येद्यावद्गुटिका । जम्भसलिले निम्बूर से, पर्युषितौ दिनरात्रिं स्थितौ कृत्वा । अन्धमूषामध्ये तत्समगन्धकं ताभ्यां समं गन्धकं गोलकस्याध ऊर्ध्व दत्त्वा, मृदुपुढे पक्त्वा, उद्धरेत् खाङ्गशीतं यथा भवति तथा; पश्चात्रिः काश्चनवारिणा विलुलितौ त्रिवारं भावितौ, अथवा कन्यया कुमारिकारसेन सप्तवारं भावितौ, पूर्वप्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy