________________
२८
रसपद्धतिः।
विदुः उक्तवन्तः । अतोऽतिरिक्तेषु प्राकृतवैकृतेषु कृत्रिमाकृत्रिमलोहेषु अपक्केषु सेवितेषु सत्सु वादिभिः विमृश्य विचार्य गुणदोषवर्णनमुपक्षिप्तमस्ति । अतो मया अपक्केषु शेषेषु सुवर्णव्यतिरिक्तेषु गुणो दोषो वा उपक्षिप्तो नास्ति, अपक्वानां सर्वथा प्रयोगानहलात् । न चापकानां गुणकथनं व्यर्थमिति वाच्यं ? तस्यापक्कभक्षणनिषेधे तात्पर्यादिति । यच्च ताम्रोदरपक्वस्य विषादी प्रयोगः स तु क्वाचित्कः, पुनर्वान्त्यापादकलाच न विचार्यते ॥ ३६ ॥ अथ पक्कानां गुणाः, तत्र कान्तस्याहशोकं हन्ति हलीमकं च जरसं पाण्डं च पाण्डुक्षयं भूतिः कान्तिभवा, ततस्तु कियता न्यूनैव तीक्ष्णोद्भवा । टी--कान्तभवा भूतिः भस्म; शोफ श्वयधुं, हलीमकं पाण्डुविशेषं, जरसं जरारोगं, पाण्डं पाण्डुरोगं, पाण्डुक्षयं पाण्डुजनितक्षयं ‘कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति' इति वचनात् ; एतान् हन्ति । ततः कियता न्यूनैव कियता गुणेन न्यूनैव तीक्ष्णोद्भवा भूतिः ॥
कासश्वासिनि शूलिनि ज्वरिणि हद्रोगिण्युपश्लोकिता भूतिः शुल्वभवा, तु वङ्गजनिता मेहिन्यसन्मूत्रिणि ॥३७॥ ताम्रभस्मगुणानाह-कासेत्यादि । शुल्बभवा भूतिः कासादियुक्ते रोगिण्युपश्लोकिता कथिता । तु पुनः वङ्गाजनिता भूतिः मेहिनि मूत्राघातयुक्ते पुरुषे च हिता भवति । रजतसीसयोः केवलयोस्तु विशेषव्याधावाचार्यैरनभिधानात् गुणा नोक्ताः, वैद्यव्यवहारबाह्यलाच । एते तु प्राधान्याद्विशेषगुणा एव, अन्ये च गुणाः प्रन्यान्तरतो झेयाः । वङ्गसीसयोर्दुतिः पारदादौ नोपयुज्यते, न वा वस्त्रादौ उपयुज्यते, अतो नोका । यदि कर्तव्या तर्हि सुवर्णादिवत्कार्या । पित्तलं तु द्विविधं भवति-रीतिकासंज्ञ, काकतुण्डीसंज्ञं च । अस्याः शुद्धिस्तु-"तप्तं क्षिप्तं तु निर्गुण्डीरसे श्यामारजोऽन्विते । ताम्रवन्मारणं तस्याः कृला सर्वत्र योजयेत्” इति। सुवर्णरीतिकाचू
मन्नादिना छागेन भक्षितं तद्विष्टां खर्परे लिवा पश्चाद्दग्धं खर्परं रीतिं मुञ्चति, तां रीतिकामेकीकृत्यावर्त्य मुद्रिका कृता चतुर्दशवर्णसुवर्णतुल्या भवति । एतस्य भस्म तु निम्बकाष्ठचूर्णेन सह भल्लाततिलब्रह्मबीजाजमोदाग्निभिः सेवितं जन्तुम्नं श्वेतकुष्टनं च भवति, एवं कांस्यम् । अष्टभागतानं द्विभागकुटिलमेकत्र दावितं कांस्यं भवति । तत्कांस्यं सौराष्ट्रभवं शुद्धं भवति । तद्गुणाश्च कृमिघ्नवादयो ज्ञेयाः । कांसस्य शोधनं गवां मूत्रे कार्य, पश्चाद्गन्धकतालाभ्यां पञ्चभिर्गजपुटैः सिद्धं भवति; तद्भस्म रोगेषु प्रयोज्यम् । पञ्चलोहं वर्तसंहं भवति । तस्य नाम पञ्चरसमिति । तच्च रीत्यर्कनागवझेभ्यः समुत्पद्यते । तद्भाण्डमध्ये व्यञ्जनसूपादि साधनीयम् । अश्वमूत्रे तप्तं क्षिप्तं शुध्यति । गन्धकतालेन च म्रियते । रोगांस्तु प्रागुक्तान् हन्ति । धृतवज्य कांस्ये सर्व पाच्यम् ॥ ३७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com