SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः। अथ महारसानां शुद्ध्यादि निरूपयितुं महारसानां नामान्युद्दिशतिवैक्रान्तं गगनं शिलाजचपलौ तापीजतुत्थे तु षण्णाना नाम महारसाः टी०-वैक्रान्तोऽनेनैव नाना प्रसिद्धः । गगनमभ्रकः । शिलाजं शिलाजतु । चपलेति नाना प्रसिद्धश्चपलः । तापीजं माक्षिकम् । तुत्थं मयूरग्रीवम् । एते षण्महारसाः । अन्ये तु-"अभ्रं वैक्रान्तमाक्षीकविमलाऽद्रिजशस्यकम् । चपलो रसकश्चेति ज्ञात्वाऽष्टौ संहरेद्रसान्"-इति अष्टावाहुः । तत्र विमलस्य माक्षिकान्तःपातिखात् , खर्परस्य तुत्थान्तःपातित्वात् षण्णामेव ग्रहणं कृतं ग्रन्थकारेण ॥ पुनरयं वैक्रान्तकः सप्तधा । यद्यप्यस्ति तथाऽपि कृष्णसुषमं तद्वच्मि सर्वात्मना शेषान्न प्रकृतोपयोगविरहाच्छुद्धस्तु कृष्णो धनः ॥३८॥ षट्कोणो वसुकोणकोऽपि मसृणो टी०-तत्र वैक्रान्तस्य मेदानाह-पुनरयं वैक्रान्तक इति । विकृन्तति विकर्तयति वा लोहानिति वैक्रान्तः। स तु सप्तधेत्याह-सप्तधेति । यद्यपि सप्तधा अस्ति तथाऽपि कृष्णसुषमं कृष्णाभं वैक्रान्तकं वच्मि निरूपयामि । शेषान् प्रकृतोपयोगविरहादसेषु मृगाङ्कादावनुपयोगात्, ते नोच्यन्त इत्यर्थः । तत्र शुद्धस्य परीक्षामाह-शुद्ध इति । तु इति वाक्यमेदे । कृष्णः शुद्धनिर्मलः, धनः भारवान् , वसुकोणकोऽ टकोणकः, अपिशब्दः समुच्चयार्थः, मसणश्चिकणः, स श्रेष्ठो भवति ॥ ३८ ॥ मूत्रे कुलित्थोदके सुग्रम्भोत्तरवारुणीपयसि च खिन्नस्त्रिघत्रं शुचिः। मुत्रेऽश्वस्य विभावितस्त्रिचतुरैर्मातः पुटैारितो योज्यो वज्रपदे सुबुद्धिभिरयं यद्वज्रतुल्यो गुणैः ॥ ३९ ॥ टी०-तस्य शुद्धिमाह-मूत्र इति । उदकं क्वाथः । उत्तरवारुणीति उत्तरणीति प्रसिद्धा । एतेषां त्रयाणां रसे दुग्धे वा चूणीकृत्य त्रिदिनं खेदनं कुर्यात् । पश्चाच्छुचिः निर्मलः। अश्वस्य मूत्रै वितः पुनातः सन् अश्वमूत्रे प्रक्षिप्तः, पश्चाद्गन्धकलकुचाम्लैर्भावयित्वा, गजाख्यैः पुटैारितः, भस्मनो रेखापूर्णता लघुता च यावद्भवति तावत्रिचतुराणि पुटानि देयानि, पश्चाद्वज्रपदे वज्रस्थाने सुबुद्धिभिर्योज्यः, यत् यस्मात्कारणाद्गुणैर्वज्रतुल्यो भवति इति वाक्यार्थः । अत्रेदं नेयम्-महिषासुरस्य रुधिरं यत्र यत्र पतितं तत्र तत्र वज्राकारं जातं, तस्य नाम वैकान्त इति; स च विन्ध्यस्य दक्षिणोत्तरभागयोस्तिष्ठति । स च श्वेतादिभेदेना Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy