________________
रसपद्धतिः।
प्रकारकः । तत्र कृष्णस्यातिश्रेष्ठत्वं; सुवर्णादिकरणे पीतः, रौप्यादिकरणे श्वेतः, मरकतप्रभो रक्तश्च सर्वार्थसिद्धिदः, अन्ये तु निष्फलाः । वैक्रान्तग्रहणं तु भैरवविनायकपूजापुरःसरं कर्तव्यम् । “वैकान्तो वज्रसदृशो देहलोहकरो मतः । विषघ्नो रसराजश्च ज्वरकुष्ठक्षयप्रणुत्" इति । अस्य भस्म तु पूर्वरसै वितस्य गन्धकेनैव कार्य, विशेषतस्तु हयमत्रेण । अत एवोक्तम्,-"कुलित्थक्वाथसंखिन्नो वैकान्तः परिशुध्यति । म्रियतेऽष्टपुटैर्गन्धनिम्बुकद्रवसंयुतः" इति । सत्त्वपातनप्रकारस्तु,"सत्त्वपातनयोगेन मर्दितश्च वटीकृतः । मूषास्थो घटिकाध्मातो वैक्रान्तः सत्त्वमुसृजेत्" इति । रसायनानि मृगाङ्कादीनि तु सिद्धानि । द्रुतिपातनं तु सर्वपाषाणसत्त्वानां द्रुतिवत्कार्यम् ॥ ३९ ॥
अथ गगनस्य भस्मादिप्रकारमाहमण्डूकाहिपिनाकवज्रविभिदा ख्यातश्चतुर्धाऽभ्रकः प्रत्येकं स पुनस्तथैव विशदः पीतोऽरुणः श्यामलः । यस्तत्रोत्प्लवते कृशानुशकटीध्मातः स आद्योऽपरः फूकारीस तथैव यःस विसृजत्यग्नौ पिनाकश्छदान्॥४०॥ टी०-गगनं चतुर्धा-मण्डूकनागपिनाकवज्रभेदादभ्रकश्चतुर्धा ख्यातः। स युनः श्वेतादिभेदेन प्रत्येकं चतुर्धा ज्ञेयः । विशदः श्वेतः । तत्र मण्डूकस्य लक्षणमाह-य इति । कृशानुर्वह्निस्तस्य शकटी हसन्ती, तस्यां ध्मातः उत्प्लवते स मण्डूक आयो भवति । यश्चापरः फूत्कारी भवति यः फूत्कारशब्दानग्नौ करोति स अहिः नागः; तथैव यः छदान् पत्राणि अग्नौ विसृजति स पिनाकः ॥ ४० ॥ तत्र त्रयाणामनिष्टत्वादसत्कल्पत्वमाह
उक्तं यत्तदसत्रयं त्रयमपि श्वेतादिवजाभ्रकाद्वज्रव्योम तदामनन्ति भिषजः प्राग्वैकृतैर्वर्जितम् । स्निग्धं कजलकालकान्ति सुकरोल्लेखच्छदं गुर्वपि स्वच्छं वज्रवियत्,
टी-अवधित्वे पञ्चमी; श्वेतादिवज्राभ्रकात् त्रयमुक्तं तत् असत्, यदि स्यात्तदा दोषकर्तृत्वात्त्याज्यमेव । तत् भिषजः वज्रव्योम आमनन्ति यत्प्रागुक्तैर्वेकृतेवर्जितम् । तदुक्तम्,-"वज्रानं वह्निसंतप्तं निर्मुक्ताशेषवैकृतम्। देहलोहकरं तत्तु सर्वरोगहरं परम्"-इति । तल्लक्षणमाह-स्निग्धमिति । स्निग्धं महणं, तदेवाह-कजलेत्यादि । कज्जलवकाला कान्तिर्यस्य तत् । सुकरं नखादिमिः उल्लेख उल्लेखनं येषां, तादृक्छदा यस्मिन् तत् । गुरु भारवत् । वियद्वजं कृष्णाभ्रकमित्यर्थः । श्वेतपीतरक्तवज्राघकाणां सत्त्वेऽपि रसादिष्वनुपयोगात् वज्रं कृष्णाभ्रकमेवोक्तम्॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com