________________
तस्य शुद्धिप्रकारमाह---
रसपद्धतिः ।
प्रतप्तमनले निर्वापितं सप्तधा ॥ ४१ ॥
गोदुग्धत्रिफलाऽऽरनालसुरभीमूत्रे यथास्वं शुचि
३१
टी० - अनले प्रतप्तं पश्चाद्गोदुग्धादिषु यथालाभं सप्तधा निर्वापितं शुद्धिमेति ॥ ४१ ॥—
श्लक्ष्णं व्रीहिभिरेकतः समतुलैरूर्णापटे घर्षयेत् । ऊर्णासित काञ्जिकादपहृतं तत्पोडशांशेन वा ववंशेन सुटङ्कणेन मिलितं संमर्दितं भावितम् ॥ ४२ ॥ दुग्धैरभवैश्व वास्तुकरसैर्वा कासमर्दद्रवैर्मत्स्याक्षीसलिलैश्च गन्धवतिकाद्रावैश्च शिशुद्रवैः । चक्रीकृत्य तदर्कपत्रपिहितं पक्कं गजाद्वैः पुटैर्यावच्चन्द्रकमभ्रभस्म भवति प्रायः सुपीतारुणम् ॥ ४३ ॥ गाङ्गेयीवटदुग्धमूलसलिलैः पीतारुणावारिणा तत्केचित्तु विभावयन्ति चरमे द्वियेकपाकान्तरे | वर्णार्थ, त्वथ तद्वपुर्बलकरं वृष्यं प्रमेहापहं
टी० - धान्याभ्रकप्रकारमाह-- श्लक्ष्णमित्यादि । श्लक्ष्णं मृदुलं, समतुलैः समभागैर्द्रौहिभिमिंश्रयित्वोर्णापटे घर्षणं कार्यं, घर्षणं तु काञ्जिकमध्ये । ऊर्णास्रंसितभूर्णावस्त्रगालितं; पश्चात्काञ्जिके अधस्तात्स्थितं गृहीत्वा षोडशांशेनाथवा वस्वंशेनाष्टमांशेन टङ्कणक्षारेणैकत्र मर्दितं, पश्चादर्कभवेदुग्धैर्भावितं, ततो वास्तुकादिर सैर्भावितं, पश्चाल्लघुचक्रिकाकारं कृत्वा, अर्कपत्रेषु दत्त्वा गजाः पुटैर्यावञ्चन्द्रिकाविरहितं भवति तावत्पुटेत् । तद्भस्म बाहुल्येन पीतारुणं भवति । यदि न भवेदारुण्ये काङ्क्षा चेत् तर्हि वर्णार्थं गाङ्गेयी नागबला मुस्ता वा, वटदुग्धं न्यग्रोधदुग्धं, अथवा तस्य मूलसलिलैः; तथा पीता हरिद्रा, अरुणा मञ्जिष्टा, अनयोर्वारिणा क्वाथेन; भावयन्ति केचित् । द्वित्र्येकपाकान्तरे चरमपुटद्वये त्र्ये वा उर्वरिते भावना देयेत्यर्थः । तद्गुणानाह – तदिति । वपुर्बलकरं शरीरपुष्टिकारि, वृष्यं शुक्रप्रदं, मेहादिनाशकम् । अन्येऽपि गुणा ग्रन्थान्तरतो ज्ञेयाः । अत्रेदं ज्ञेयं, अभ्रकं तु खनेः सकाशात् पुरुषप्रमाणं गर्तं कृत्वा ग्राह्यं तत्र भारवत्ससत्त्वं फलप्रदं भवति, निःसत्त्वं निर्भारं निष्फलं भवति । यद्यपि चतुर्विधमपि रसायने उक्तं तथाऽपि कृष्णवर्णाभ्रं कोटिकोटिगुणावहं भवति । धातुवादिभिस्तु “ पीतं पीतक्रियासूक्तं श्वेतं श्वेतक्रियासु च -" इत्युक्तम् । चन्द्रिकायुक्तसेवने प्रमेहादिदोषा भवन्ति, अतः सर्वगदेषु निश्चन्द्रिकमेव सेव्यम् । तच्च शोधितमेव कर्तव्यम् । धान्याभ्रकलक्षणं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com