SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ३२ रसपद्धतिः । तु - " चूर्णा शालिसंयुक्तं वस्त्रबद्धं तु काञ्जिके । निर्यातं मर्दनाद्वखाद्धान्याभ्रमिति कथ्यते”- इति । पुटं तु त्रिहस्तप्रमाणं द्विहस्तं वा कार्यम् । सत्त्वप्रकारस्तु -कासमर्दकतन्दुलीयकवासापुनर्नवाकाण्डवल्ली हंस पादी मत्स्याक्षीभिर्भावयित्वा शोषयित्वा, पलमात्र गोधूमचूर्ण क्षुद्रमत्स्यटङ्कणादिकं दत्त्वा मर्दयित्वा पश्चाच्छोषयित्वा महिषीगवाज गजाश्वविट्पञ्चकं गृहीत्वा तेन सह मदयित्वा, तिन्दुकप्रमाणान् गोलकाकृत्वा, अधःपातनकोष्ठ्यां घ्मात्वा सत्त्वं निपातयेत् । तस्मात्किहं गृहीत्वा स्फोटयित्वा क्षुद्रकणकान् गृहीत्वा, पश्चाद्गोमयेन टङ्कणेन सह विमर्दनं विधाय, गोलकान् विधाय, ध्यात्वा, पुनः किट्टात् रवकान्निष्कास्य, तान् घनकांस्यसदृशान् रवकान् कृत्वा, काञ्जिकाम्लैः शोधयित्वा, मूत्रामध्ये दत्त्वा, अन्धमूषीकृत्वा, सम्यक् पुनर्धमेत् । तत्सत्त्वं चूर्ण कृत्वा, गोघृतेन खर्परे भृष्ट्वा, यावत्तृणदाहो भवति तावद्भर्जनं कृत्वा, पश्चाद्वटस्कन्धकषायगन्धकेन संमद्ये पुनस्त्रिफला दिभिः पूर्वोक्तादिभिर्भावयित्वा विंशतिवारं षष्टिवारं शतवारं पुटयित्वा सत्त्वभस्म संपाद्यम् । तच्च सर्वेषु रोगेषु योजनीयम् । महाक्षुत्करं च भवति । अन्येऽपि प्रकारा ग्रन्थान्तरतो ज्ञेयाः । द्रुतिप्रकारस्तु शास्त्रे दृष्टोऽपि न जायत इत्युपेक्षितः, “द्रुतयो नैव निर्दिष्टाः शास्त्रे दृष्टा अपि दृढम् । विना शम्भोः प्रसादेन न सिध्यन्ति कदाचन" - इति वचनात् । अनुपानं चात्र व्योषविडङ्गमधुघृतादि । प्रमाणं च वल्लमात्रं क्षयादिषु योज्यम् ॥ ४२ ॥ ४३ ॥ प्राग्दर्शितशिलाजतोः प्रकारमाह , स्वातत्र्यातु शिलाजतु द्विरचलोद्भूतं तथोषोद्भवम् ॥ ४४ ॥ तत्राद्यं शितिकान्ति काञ्चनघनश्लक्ष्णं जले शैवलच्छायं स्यादनले तु लिङ्गमिव यगोमूत्रगन्धीरितम् । टी० - अचलोद्भूतं तथोषोद्भूतं एवं द्विः शिलाजतु भवेत् । अचलः पर्वतः । उषा क्षारमृत्तिका । तत्रायो द्विविधः ससत्त्वो निःसत्त्वश्च । तत्राद्यो गुणवत्तरः । शिलाजतुलक्षणं तु वाग्भटेनोक्तम् — “ ग्रीष्मेऽर्कतप्ता गिरयो जतुतुल्यं वमन्ति यत् । हेमादिषड्धातुरसं प्रोच्यते तच्छिलाजतु ” - इति । सुवर्णादिगिरयस्तु तत्तत्खनित्वेन ज्ञेयाः । तत्परीक्षा तु, – “क्षिप्तममौ न दत्थेत लिङ्गाकारमथापि च । बले जटिलतां याति श्रेष्ठमेतच्छिलाजतु " - इत्यादि ज्ञेयम् । तत्र लक्षणमाहतत्राद्यमिति । आद्यं गोमूत्राख्यम् । शिति कृष्णम् । अन्यत्स्पष्टम् । लिङ्गमिव ऊर्ध्वं भवति ॥ ४४ ॥― तस्य शोधनमाह दुग्धेन त्रिफलाजलेन सुरभिमूत्रेण तप्तेन तद्धतं शुध्यति वाऽऽयसे पुरजलैर्द्वित्रिक्षणैः पाचितम् ॥४५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy