SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः । ३३ टी० - दुग्धादिभिस्तप्तैधतं प्रक्षालितं शुध्यति; अथवा आयसे पात्रे पुरजलैर्गुग्गुलुजलैर्द्वित्रिक्षणैः क्षणोऽत्र घटिका, तावत्पर्यन्तं पाचितं शुध्यति । अन्यप्रकारस्त्वयम् — गोमूत्रगन्धि भारवत्तरं शिलाजतु गृहीत्वा, पश्चादत्युष्णजलमध्ये विलीनं कृत्वा, आयसे पात्रे स्थापयित्वा, सूर्यकिरणैः संतप्तं यदा कृष्णवर्ण जलमुपरि भवति तावदेव तत् कृष्णं जलं द्वितीयपात्रे निष्कास्य, अधःस्थितं जलं पुनरुष्णे स्थापयेत्, पुनरुपरि आगतं कृष्णं जलं तस्मिन् द्वितीयपात्रे गृहीत्वा, अधश्चारुणं जलं पुनः पूर्वपात्रे स्थापयेत्, पुनश्च प्रथमपात्रादागतं कृष्णं जलं द्वितीयपात्रे दद्यात्, एवं त्रिवारं सर्वं कृष्णं जलं गृहीतं भवति तदा त्रिफलाजलेन गोदुग्धेन गोमूत्रेण खल्पं स्वल्पं भावयेत्; पुनरप्यसनादिगणेन शालसारादिगणेन वा अन्यैश्व दिव्यौषधिमिdisgraशेषकषायेण वारं वारं भावयित्वा सिद्धं काचपात्रे स्थापयेत्, तस्यागुर्वादिधूपदानं च कुर्यात् एवं सिद्धो भवति । अयं प्रकारस्तु चरकवाग्भटादौ दर्शितः । स च सर्वानुपानैः सर्वरोगेषु योज्यः “ सर्वेषु रोगेषु शिलाह्वयं च " - इति वचनात् विशेषस्तु “बस्तिजेषु गिरिजम् " - इति वचनात् ॥ ४५ ॥ गुणानाह Eng छेदकरं दृषद्विदलनं मूत्रामयोत्सादनं मेहोन्माथि तदाहुरस्य भसितं स्याद्भस्मसाधारणम् । टी० - मेदश्छेदकरमित्यादि । दृषद् पाषाणः, अश्मरीति यावत् । अस्य भसि - तमिति भस्मसाधारणं स्यात् भस्माकारं भवति । अत एव – “ र सोपरससूतेन्द्ररत्नलोहेषु ये गुणाः । ते वसन्ति शिलाधातौ जरामृत्युजिगीषया " - इति । भस्मप्रकारस्तु, – “शिलया गन्धतालाभ्यां मातुलिङ्गरसेन च । पुटितो हि शिलाधातुम्रियतेऽष्टगिरिण्डकैः”-इति । गिरिण्डकमत्र अरण्यच्छाणं; तदुक्तम्, – “पिष्टकं छगणं छाणमुपलं चोत्पलं तथा । गिरिण्डोपलसाटी च सुशुष्कच्छगणामिधाः” इति । मनः शिलादिदानं च षोडशांशेन । सत्त्वप्रकारस्तु, – “पिष्टं द्रावणवर्गेण साम्लेन गिरिसंभवम् । दत्त्वा मूषोदरे रुद्धा गाढं ध्यातं हि कोकिलैः ॥ सत्त्वं मुश्चेच्छिलाधातुः खखनेर्लो हि संनिभम् " - इति । कोकिलाः शिखित्राः “शिखित्राः पावकोच्छिष्टा अङ्गाराः कोकिला मताः " - इति । अत्र विशेषः - जलेन सिक्ताश्चेत् कोकिलाः, अन्यथा तु पावकोच्छिष्टाः । अत्र द्रावकं च क्षाराम्लादिकम् । सत्त्वलक्षणं तु, “क्षाराम्लद्रावणैर्युक्तं ध्यातं यद्वस्तु कोष्ठके । यस्तत्र निःसृतः सारः सत्त्वमित्यभिधीयते”इति । भस्मलक्षणं तु - " मृतं तदिति यत्तोये लोहं वारितरं भवेत्” इति ॥ - द्वितीय शिलाजतुप्रकार माह वह्नयुत्तेजनमुज्ज्वलं यदपरं मूत्रामयिभ्यो हितं १ 'भाकरकोष्ठके' 'पावककोष्ठके' इति च पाठान्तरद्वयमुपलभ्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy