Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
३४
रसपद्धतिः : ।
टी० - वह्नयुते जनमिति । यदपरं श्वेतं शिलाजतु तद्वह्रथुत्तेजनं वह्निप्रदीपकं; अत्र जठराभिर्न प्रायः, किं तु अग्निशस्त्राणि ग्राह्याणि; तत्रत्याः प्रदीपनं 'सोरा' इति प्रसिद्धं अग्निबाणेषु प्रयुज्यते । तस्य पाकेन स्फटिकाकाराः शलाकाः क्रियन्ते । तन्मूत्रामयिभ्यो हितम् । अत एवोक्तम्, – 'पाण्डुरं सिकताकारं कर्पूराभं शिलाजतु । मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ॥ एलातोयेन संमिन्नं सिद्धं शुद्धिमुपैति तत् । नैतस्य मारणं सत्त्वपातनं विहितं बुधैः' इति । उत्पत्तिस्तु मृत्तिकाविशेषाज्जलविशेषाच्च ज्ञेया ॥
अथ चपलः । चपलस्य शोधनादिकमाह
चत्वारश्चपलाः सितासितहरिच्छोणप्रभेदैः पुनः ॥ ४६ ॥ मोघौ शोणितशोणकञ्जलनिभौ लाक्षावदाशुद्रवाच्छेषौ तु द्रवतश्विरेण सुभगौ तौ शुध्यतः सप्तधा । कट्यार्द्रकजम्भकस्य सलिले संस्वेदतो वा प्लुतौ प्राथम्याद्रसबन्धनौ तदुपरि स्यातां तु योगानुगौ ॥ ४७ ॥
टी० - चपलस्तु लोकमध्येऽप्रसिद्धत्वादनेनैव नाम्ना प्रसिद्धः " वङ्गवद्द्रवते वहौ चलपस्तेन कीर्तितः" - इति । चपलचतुर्धा - सितासितहरितशोणभेदात् । तत्र द्वयोर्निष्फलवमाह — मोघाविति । अन्ययोस्तु फलवत्त्वमाह - शेषाविति । शेषौ हरितश्वेतौ, सुभगौ गुणवत्तरौ । अनयोश्विरेण द्रवता सुवर्णप्रभत्वं ताराभत्वं च भवति । ताविति कर्कोट्यादिद्रावेण सप्तधा स्वेदितौ शुध्यतः, अथवा भावितौ । प्रथमं तु रसबन्धकौ भवतः; तदुपरि पश्चाद्योगानुगौ योगवाहिनौ स्याताम् । अत एवोतम् — “ चपलः स्फटिकच्छायः षट्शीर्षा स्निग्धको गुरुः । त्रिदोषघ्नोऽतिवृष्यश्च रसबन्धविधायकः " - इति । अस्य तु रसेषु कैश्वित्पातः कृतः । सत्त्वं तु उपविषविषैधन्याम्लकसहितैर्मर्दयिला पूर्ववत्पिण्डं कृत्वाऽन्धमूषायां पातयेत् ॥ ४६ ॥ ४७॥
अथ माक्षिकः । तस्य शुद्ध्यादिप्रकार माह
तापीजं द्विरुदाहरन्ति विमलामाक्षीक भेदादिह त्रेधाऽऽद्या तु सुवर्णकांस्यरजतच्छायानुकारादमूः । तिस्रोऽप्यस्रयुताश्चतुस्त्रिफलका वृत्ताः खनामश्रियो मध्योक्ता विमला तु शुध्यति दिनं वासाजशृङ्गीरसे ॥४८॥ खिन्ना जम्भरसेऽपि तालबलिना वस्वंशकेनाम्भसा जम्भस्यैव परिप्लुता दशपुटैजवेन योगानुगा । टी० - तापीजं द्विः द्विविधमुदाहरन्ति - विमला माक्षिकच । तत्र विमलस्त्रि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144