Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
३२
रसपद्धतिः ।
तु - " चूर्णा शालिसंयुक्तं वस्त्रबद्धं तु काञ्जिके । निर्यातं मर्दनाद्वखाद्धान्याभ्रमिति कथ्यते”- इति । पुटं तु त्रिहस्तप्रमाणं द्विहस्तं वा कार्यम् । सत्त्वप्रकारस्तु -कासमर्दकतन्दुलीयकवासापुनर्नवाकाण्डवल्ली हंस पादी मत्स्याक्षीभिर्भावयित्वा शोषयित्वा, पलमात्र गोधूमचूर्ण क्षुद्रमत्स्यटङ्कणादिकं दत्त्वा मर्दयित्वा पश्चाच्छोषयित्वा महिषीगवाज गजाश्वविट्पञ्चकं गृहीत्वा तेन सह मदयित्वा, तिन्दुकप्रमाणान् गोलकाकृत्वा, अधःपातनकोष्ठ्यां घ्मात्वा सत्त्वं निपातयेत् । तस्मात्किहं गृहीत्वा स्फोटयित्वा क्षुद्रकणकान् गृहीत्वा, पश्चाद्गोमयेन टङ्कणेन सह विमर्दनं विधाय, गोलकान् विधाय, ध्यात्वा, पुनः किट्टात् रवकान्निष्कास्य, तान् घनकांस्यसदृशान् रवकान् कृत्वा, काञ्जिकाम्लैः शोधयित्वा, मूत्रामध्ये दत्त्वा, अन्धमूषीकृत्वा, सम्यक् पुनर्धमेत् । तत्सत्त्वं चूर्ण कृत्वा, गोघृतेन खर्परे भृष्ट्वा, यावत्तृणदाहो भवति तावद्भर्जनं कृत्वा, पश्चाद्वटस्कन्धकषायगन्धकेन संमद्ये पुनस्त्रिफला दिभिः पूर्वोक्तादिभिर्भावयित्वा विंशतिवारं षष्टिवारं शतवारं पुटयित्वा सत्त्वभस्म संपाद्यम् । तच्च सर्वेषु रोगेषु योजनीयम् । महाक्षुत्करं च भवति । अन्येऽपि प्रकारा ग्रन्थान्तरतो ज्ञेयाः । द्रुतिप्रकारस्तु शास्त्रे दृष्टोऽपि न जायत इत्युपेक्षितः, “द्रुतयो नैव निर्दिष्टाः शास्त्रे दृष्टा अपि दृढम् । विना शम्भोः प्रसादेन न सिध्यन्ति कदाचन" - इति वचनात् । अनुपानं चात्र व्योषविडङ्गमधुघृतादि । प्रमाणं च वल्लमात्रं क्षयादिषु योज्यम् ॥ ४२ ॥ ४३ ॥
प्राग्दर्शितशिलाजतोः प्रकारमाह
,
स्वातत्र्यातु शिलाजतु द्विरचलोद्भूतं तथोषोद्भवम् ॥ ४४ ॥ तत्राद्यं शितिकान्ति काञ्चनघनश्लक्ष्णं जले शैवलच्छायं स्यादनले तु लिङ्गमिव यगोमूत्रगन्धीरितम् ।
टी० - अचलोद्भूतं तथोषोद्भूतं एवं द्विः शिलाजतु भवेत् । अचलः पर्वतः । उषा क्षारमृत्तिका । तत्रायो द्विविधः ससत्त्वो निःसत्त्वश्च । तत्राद्यो गुणवत्तरः । शिलाजतुलक्षणं तु वाग्भटेनोक्तम् — “ ग्रीष्मेऽर्कतप्ता गिरयो जतुतुल्यं वमन्ति यत् । हेमादिषड्धातुरसं प्रोच्यते तच्छिलाजतु ” - इति । सुवर्णादिगिरयस्तु तत्तत्खनित्वेन ज्ञेयाः । तत्परीक्षा तु, – “क्षिप्तममौ न दत्थेत लिङ्गाकारमथापि च । बले जटिलतां याति श्रेष्ठमेतच्छिलाजतु " - इत्यादि ज्ञेयम् । तत्र लक्षणमाहतत्राद्यमिति । आद्यं गोमूत्राख्यम् । शिति कृष्णम् । अन्यत्स्पष्टम् । लिङ्गमिव ऊर्ध्वं भवति ॥ ४४ ॥―
तस्य शोधनमाह
दुग्धेन त्रिफलाजलेन सुरभिमूत्रेण तप्तेन तद्धतं शुध्यति वाऽऽयसे पुरजलैर्द्वित्रिक्षणैः पाचितम् ॥४५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144