Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 43
________________ तस्य शुद्धिप्रकारमाह--- रसपद्धतिः । प्रतप्तमनले निर्वापितं सप्तधा ॥ ४१ ॥ गोदुग्धत्रिफलाऽऽरनालसुरभीमूत्रे यथास्वं शुचि ३१ टी० - अनले प्रतप्तं पश्चाद्गोदुग्धादिषु यथालाभं सप्तधा निर्वापितं शुद्धिमेति ॥ ४१ ॥— श्लक्ष्णं व्रीहिभिरेकतः समतुलैरूर्णापटे घर्षयेत् । ऊर्णासित काञ्जिकादपहृतं तत्पोडशांशेन वा ववंशेन सुटङ्कणेन मिलितं संमर्दितं भावितम् ॥ ४२ ॥ दुग्धैरभवैश्व वास्तुकरसैर्वा कासमर्दद्रवैर्मत्स्याक्षीसलिलैश्च गन्धवतिकाद्रावैश्च शिशुद्रवैः । चक्रीकृत्य तदर्कपत्रपिहितं पक्कं गजाद्वैः पुटैर्यावच्चन्द्रकमभ्रभस्म भवति प्रायः सुपीतारुणम् ॥ ४३ ॥ गाङ्गेयीवटदुग्धमूलसलिलैः पीतारुणावारिणा तत्केचित्तु विभावयन्ति चरमे द्वियेकपाकान्तरे | वर्णार्थ, त्वथ तद्वपुर्बलकरं वृष्यं प्रमेहापहं टी० - धान्याभ्रकप्रकारमाह-- श्लक्ष्णमित्यादि । श्लक्ष्णं मृदुलं, समतुलैः समभागैर्द्रौहिभिमिंश्रयित्वोर्णापटे घर्षणं कार्यं, घर्षणं तु काञ्जिकमध्ये । ऊर्णास्रंसितभूर्णावस्त्रगालितं; पश्चात्काञ्जिके अधस्तात्स्थितं गृहीत्वा षोडशांशेनाथवा वस्वंशेनाष्टमांशेन टङ्कणक्षारेणैकत्र मर्दितं, पश्चादर्कभवेदुग्धैर्भावितं, ततो वास्तुकादिर सैर्भावितं, पश्चाल्लघुचक्रिकाकारं कृत्वा, अर्कपत्रेषु दत्त्वा गजाः पुटैर्यावञ्चन्द्रिकाविरहितं भवति तावत्पुटेत् । तद्भस्म बाहुल्येन पीतारुणं भवति । यदि न भवेदारुण्ये काङ्क्षा चेत् तर्हि वर्णार्थं गाङ्गेयी नागबला मुस्ता वा, वटदुग्धं न्यग्रोधदुग्धं, अथवा तस्य मूलसलिलैः; तथा पीता हरिद्रा, अरुणा मञ्जिष्टा, अनयोर्वारिणा क्वाथेन; भावयन्ति केचित् । द्वित्र्येकपाकान्तरे चरमपुटद्वये त्र्ये वा उर्वरिते भावना देयेत्यर्थः । तद्गुणानाह – तदिति । वपुर्बलकरं शरीरपुष्टिकारि, वृष्यं शुक्रप्रदं, मेहादिनाशकम् । अन्येऽपि गुणा ग्रन्थान्तरतो ज्ञेयाः । अत्रेदं ज्ञेयं, अभ्रकं तु खनेः सकाशात् पुरुषप्रमाणं गर्तं कृत्वा ग्राह्यं तत्र भारवत्ससत्त्वं फलप्रदं भवति, निःसत्त्वं निर्भारं निष्फलं भवति । यद्यपि चतुर्विधमपि रसायने उक्तं तथाऽपि कृष्णवर्णाभ्रं कोटिकोटिगुणावहं भवति । धातुवादिभिस्तु “ पीतं पीतक्रियासूक्तं श्वेतं श्वेतक्रियासु च -" इत्युक्तम् । चन्द्रिकायुक्तसेवने प्रमेहादिदोषा भवन्ति, अतः सर्वगदेषु निश्चन्द्रिकमेव सेव्यम् । तच्च शोधितमेव कर्तव्यम् । धान्याभ्रकलक्षणं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144