Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 35
________________ रसपद्धतिः। २३ पकं सूर्यपुटैश्चतुर्दशदिनैरेरण्डपत्रावृतं भस स्यागृहधूमधूसररुचि प्राग्धान्यराशिस्थितम् ॥ २५॥ टी-शाणेन चक्रविशेषेण पतितं तीक्ष्णं, तेनैव प्रकारेण पतितं कान्तं, लेलीतको गन्धकः, दत्तः अङ्ग्रथंशः रसः पारदो यस्मिन्नेवंभूतं, विमर्च पूर्व शुष्कमेव यावद्धमनिर्गमं मर्दयिला, पश्चात्सलिलैः काजिकादिभिः कन्यारसैर्वा, पश्चाद्धनवरसेन, अद्रिकर्णी गिरिकर्णी तस्याः स्वरसैविमर्य; सूर्यपुटैः पक्वं चतुर्दशदिनैश्चतुर्दशभावनाभिः, पश्चादेरण्डपत्रावृतं गोलकं कृत्वा धान्यराशिस्थितं, गृहधूमधूसररुचि अलिन्दधूमतुल्यं भस्म स्यात् । अत्र सूर्यपुटानि प्रातःकालादारभ्य सन्ध्याकालपर्यन्तं शुष्कमर्दनेन संपादनीयानि, भावना तु संध्यायां यथा आर्द्रता संपद्यते तथा कार्या । अत्र भावनायां नियमो नास्ति, मर्दनस्यैव भस्मसंपादकत्वात् । अथ लोहत्रयस्य भेदाः । तेषु मुण्डस्य त्रयो भेदाः-मृदु कुण्ठं कुठारं चेति; तीक्ष्णस्य खरसारहुन्नालताराववाजरकाललोहानीति षड्नेदाः; तथा भ्रामकचुम्बककर्षकद्रावकरोमकभेदात्कान्तस्य पञ्च भेदाः । एतेषां लक्षणानि ग्रन्थान्तरतोऽनुसन्धेयानि । एकमुखं द्विमुखं त्रिमुखं चतुर्मुखं पञ्चमुखं सर्वतोमुखमिति तेषां कान्तानामुत्तमाधमत्वं ज्ञेयम् । लक्षणं तु नाम्नैव व्याख्यातम् । भ्रामणादिकं तु अन्यलोहस्यैव; परीक्षा शुद्धिश्च पूर्व प्रतिपादिता। अन्ये भस्मप्रकारा ग्रन्थान्तरतोऽनुसन्धेयाः। "जम्बीररससंयुक्ते दरदे तप्तमायसम् । वहुवारं विनिक्षिप्तं म्रियते नात्र संशयः ॥ तप्तं क्षाराम्लसंयुक्तं शशरक्तेन भावितम् । कान्तलोहं भवेच्छुद्धं सर्वदोषविवर्जितम् ॥ सुरदालीभवं भस्म नरमूत्रेण गालितम् । त्रिसप्तवारं तत्क्षारावापात्कान्तद्रुतिर्भवेत् ॥ देवदाल्या द्रवैर्भाव्यं गन्धकं दिनसप्तकम् । तस्य प्रवापमात्रेण लोहास्तिष्ठन्ति सूतवत् ॥ अक्षाङ्गारैर्धमेत्किटं लोहजं तु गवां जलैः । सेचयेत्तप्ततप्तं च सप्तवारं पुनः पुनः ॥ श्रेष्ठाजलैस्ततो भाव्यं पुटानि दश पञ्च च। त्रिफलामधुसंयुक्तं सर्वरोगेषु योजयेत्" इति । लोहनिरूपणम् ॥ २५ ॥ अथ ताम्रभस्मप्रकारमाहअयंशेन रसेन तुल्यतुलया लेलीतपिष्ट्या पुनलिप्वा ताम्रदलानि संस्तरचितान्यर्कस्य पक्कच्छदैः। भाण्डेरन्ध्रिणि तिन्तिणीविटपकत्वम्भस्मसंपूरिते घौकं परिपाचितानि शुचिना तीव्र नियन्ते सकृत् ॥२६॥ टी-ताम्रतुल्यगन्धकेन चतुर्थाशपारदेन कृतकज्जलिकया ताम्रदलानि लिप्त्वा, एकमधः अर्कपत्रं दत्त्वा तदुपरि लेलीतचूर्णं दत्त्वा तदुपरि पत्रं तदुपरि पुनर्लेलीतकपिष्टिस्तदुपरि पक्कार्कपत्रं, एवं संस्तरेण स्थापितानि ताम्रपत्राणि, अम्लिकात्व Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144