Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 29
________________ रसपद्धतिः। उद्दीप्तेन तुषानलेन शनकैः संपाचितः सप्तधा शुद्धश्वोपरिपातयत्रपतितः सर्वोपयोगी रसः ॥१६॥ टी-अथेति विकल्पार्थे । संतप्तखल्वे लोहमये समव्रीह्यभ्रं रसं परिमर्य, वज्रान्धमूषोदरे संस्थाप्य, भूधरपुटे उद्दीप्तेन तुषानलेन शनकैः सप्तधा संपाचितः सन् शुद्धो भवति, पश्चादुपरिपातयन्त्रपतितो रसः सवोपयोगी भवतीति योजना। तप्तखल्वभूधरलक्षणं तु प्रागुक्तम् । वज्रमूषालक्षणं तु-"मृदस्त्रिभागाः शणलद्दिभागौ भागश्च निर्दग्धतुषोपलादेः । किट्टार्धभागं परिखण्ड्य वज्रमूषां विध्यात्किल सत्त्वपाते"-इति । “गौर्वरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते। तद्गोवरपुटं प्रोकं रसभस्मप्रसिद्धये"-इति प्रतिपादितम् । ब्रीह्यभ्रोऽत्र धान्याभ्रकः । अन्धता तु उपरि चक्री दत्त्वा पूर्वोक्तमृदा वस्त्रेण छादनं, यद्वा मूषापिधानयोः सन्धौ काचचूर्ण दत्त्वा उपर्यग्निं दत्त्वा सन्धिलेपः कार्यः ॥ १६ ॥ शोधनान्तरमाहभूगर्तेऽजशकृत्तुषानलपुटे संस्थापिते लोहजे खल्वे जम्भलकाञ्जिकेन बलिना साध दशांशेन सः । संमोपरिपातयत्रविधिना निष्कासितः सप्तधा शुद्धः पारदकर्मठेनिगदितो वैद्यैरवद्येतरैः ॥ १७॥ टी-अज़शकृत्तुषानलयुक्ते भूगर्ते लोहजे खल्वे संस्थापिते सति, दशांशेन बलिना सार्धं सः रसः जम्भलकाचिकेन संमर्यः, पश्चादुपरिपातनयन्त्रेणोपरिपातनं, एवं सप्तधा निष्कासितः सन् शुद्धः पारदः पारदकर्मठैवैद्यैर्निगदितः । कीदृशैः? अवद्येतरैरत्युत्तमरित्यर्थः । बलिरत्र गन्धकः। जम्भलं जम्बीरं निम्बूफलं वा । अथवा दीपिकायन्त्रे निपातितः सर्वदोषनिर्मुक्तस्तिर्यक्पातन विधिना निपातितः सूतराजः स्यात् । दीपिकायन्त्रं तु— “कच्छपयन्त्रान्तर्गतमृन्मयपीठस्थदीपिकासंस्थः । यस्मिनिपतति सूतः प्रोक्तं तद्दीपिकायन्त्रम्"-इति । "भाण्डकण्ठादधश्छिद्रे वेणुनालं विनिक्षिपेत् । कांस्यपात्रद्वयं कृत्वा संपुटं जलगर्भितम् ॥ नलिकास्यं तत्र योज्यं दृढं तच्चापि कारयेत् । युक्तद्रव्यैर्विनिक्षिप्तः पूर्वं तत्र घटे रसः ॥ अमिना तापितो नालात्तोये तस्मिन्पतत्यधः । यावदुष्णं भवेत्सर्व भाजनं तावदेव हि ॥ जायते रससन्धानं दीपयन्त्रमिति स्मृतम्" इति ॥ १७॥ एतत्करणासमर्थेन हिड्डुलारपारदो निष्कास्यः, स रसेषु योज्य इत्याहहिङ्गलात्पृथुपारिभद्रकरसैर्वा जम्भवारा दिनं पिष्टादूर्ध्वगपातयन्त्र विधिना निष्कासयेत्पारदम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144