Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 28
________________ रसपद्धतिः। हितः । पुनः कीदृशः ? सर्वरसेषु अकुण्ठमहिमा अव्याहतशक्तिः । तदुक्तं"विषं वह्निर्मलश्चेति दोषा नैसर्गिकास्त्रयः। रसे मरणसंतापमूर्छानां हेतवः क्रमात् ॥ यौगिको नागवङ्गो द्वौ तौ जाड्याध्मानकुष्ठदौ । औपाधिकाः पुनश्चान्ये कीर्तिताः सप्त कञ्चकाः ॥ भूमिजा गिरिजा वार्जा द्वौ च द्वौ नागवङ्गजौ । द्वादशैते रसे दोषाः प्रोक्ता रसविशारदैः ॥ भूमिजाः कुर्वते कुष्ठं गिरिजा जाड्यमेव च । वारिजा वातसंघातं दोषाढ्यं नागवङ्गयोः ॥ तस्मात्सूतविधानार्थ सहायैर्निपुणैर्युतः । सर्वोपस्करमादाय रसकर्म समाचरेत् । द्वे सहस्रे पलानां तु सहस्रं शतमेव वा ॥ अष्टाविंशत्पलान्येव दश पञ्चैकमेव वा । पलार्धेनापि कर्तव्यः संस्कारः सूतकस्य हि ॥ सुदिने शुभनक्षत्रे रसशोधनमारमेत्' इति । रसरत्नाकरे तु दीपनानन्तरमर्नुवासनाख्यो नवमः संस्कारोऽस्ति । “दीपितं रसराजं तु जम्बीररससंयुतम् । दिनैकं धारयेद्धर्मे मृत्पात्रे वासितो भवेत्"-इत्यनुवासनम् । अत्र पात्रं महाचषक काचादिरचितं ज्ञेयम् । अत एवाह रसरत्नाकरः,-"खेदनादिनवकर्मसंस्कृतः सप्तकञ्चुकविवर्जितो भवेत् ॥ अष्टमांशमवशिष्यते यदा शुद्धसूत इति कथ्यते बुधैः” इति ॥ १४ ॥ इदानीमष्टौ संस्कारान्कर्तुमशक्तस्य भिषजः संक्षेपेण संस्कारानाहचिश्चाषट्वटुदुग्धकाञ्जिकवरास्विन्नस्त्रिघसं ततः कन्याव्योषवरानलार्कपयसा संमूर्छितो वासरम् । सार्धाशाभ्ररविस्विरूपतनैरुत्पन्नशुद्धिः खराड्योज्यः सर्वरसेषु शुद्धमतिभिः श्रीपारदः पारदः ॥१५॥ टी०-विश्वा तिन्तिडिकाफलं, षटु षडूषणं, दुग्धं रविदुग्धं, काञ्जिकं सौवीरं, वरा त्रिफला, एतेषां द्रव्याणां क्वाथ्यत्वं, द्रवाणां तु क्वाथत्वम् । तत्र रसस्य दोलायन्त्रेण स्वेदनं कार्यम् । तत्र कालनियममाह-त्रिघसं त्रिदिनम् । ततः कन्याव्योपवरानलार्कपयसा वासरं मर्दनेन संमूर्छितः कार्यः । रसस्य षोडशांशेनौषधानि, ततः सार्धाशाभ्ररविः सन् ऊर्ध्वपतनैत्रिभिरुत्पन्नशुद्धिः शुद्धमतिभिर्वैद्यैः सर्वरसेषु योज्यः । कथंभूतः पारदः ? श्रीपारदः, श्रियो लक्ष्म्याः पारं ददातीति श्रीपारदः । पुनः कीदृक् ? खराट् खेनैव राजत इति खराट् । एतावतैव शुद्धो भवतीति प्रतिपादितम् ॥ १५ ॥ एतदपेक्षया खल्पं शोधनमाहवर्षाभूतुलसीजलैरथ रसं संतप्तखल्वे समव्रीह्यभ्रं परिमर्प भूधरपुटे वज्रान्धमूषोदरे । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144