Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः।
टी०-अथ रसं कूप्या काचकूप्यां, नृफलोदरे नारिकेलफलमध्ये वा,सैन्धववारिणा सार्ध प्रक्षिप्य, सर्वात्मना भूमौ मृदा रोधयेत्रिदिवसम् । रोधनस्य फलं,"मर्दनैमूर्छनैः पातैम॒दुः शान्तो भवेद्रसः । सृष्ट्यम्बुजनिरोधेन ततो मुखकरो रसः" इति । सृष्टिः-शुक्र, मूत्रं, नारीणां रजश्च; अम्बुजं सैन्धवम् । अभारयुक्तचुल्यां मध्ये रोधनं पुटं वा । रसरत्नाकरे,-"लवणेनाम्बुपिष्टेन हण्डिकान्तर्गतं रसम् । आच्छाद्याथ जलं क्षिप्त्वा शरावेण निरोधयेत् ॥ ऊर्ध्व लघुपुटो देयो लब्धाप्यायो भवेद्रसः-” इति रोधनम् ।
सर्पाक्षीशितिधूर्तभृङ्गनलिनीभृङ्गीवचामागधी
वन्ध्याकर्कटिकाकषायसलिलस्वेदैनियच्छेद्रसम् ॥ १२॥ ' संयमनमाह-साक्षीत्यादि । -सर्पाक्षी भुजङ्गाक्षी, शितिधूर्तः कृष्णधत्तूरः, भृङ्गो मार्कवः, नलिनी कमलिनी, भृङ्गी भङ्गा, वचा उग्रगन्धा, मागधी पिप्पली जलपिप्पली वा, वन्ध्याकर्कटिका अफला कर्कोटी, एषां कषायश्चतुर्थाशावशेषितः, तेन स्वेदै रसं नियच्छेत् नियमनं कुर्यादित्यर्थः । “चतुष्प्रस्थजलाधारं चतुरनुलकाननम् । घटयन्त्रमिदं प्रोक्तं तदाप्यायनकं स्मृतम्" इति ॥ १२ ॥ प्रकारान्तरमाह
यद्वा मृन्मयभाजनान्तरगतं पूर्वोक्तवारा रसं - रुडा भूवलये तुषानलपुटैरूज़ नियच्छेद्रसम् । - मृन्मयभाजनान्तरगतं पूर्वोक्तवारा सह भूवलये रसं रुवा ऊर्ध्व तुषानलपुटैनियच्छेत् ।
भूगे पूरितपूर्ववारिणि रसं निक्षिप्य वस्त्रावृतं - भाण्डे योजितलोहखपरमुखे चोर्ध्व पुटे रोधयेत् ॥ १३ ॥
टी०-प्रकारान्तरमाह-भूग इति ।-पूरितपूर्ववारिणि भाण्डे रसं वत्रामृतं निक्षिप्य, लोहखर्परं लोके 'तवा' इति मुखे दत्त्वा, ऊर्ध्व करीषाग्निं दद्यादिति वाक्यान्वयः। अर्थस्तु स्फुट एव । पूर्ववारिति धूर्तकषायादिकम् । उक्तं च,-"खेदनादिवंशात्सूतो वीर्य प्राप्नोत्यनुत्तमम् । नियम्योऽसौ ततः सम्यक् चपलत्वनिवृत्तये"इति । रसरत्नाकरस्तु,-"कर्कोटौं क्षीरकन्दं च सर्पाक्षी यवचिश्चिकाम् । पढ निम्बं भृङ्गराजं व्यस्तं वाऽथ समस्तकम् ॥ कल्कयेदारनालेन तद्धैः पाचयेद्रसम् । दिनं नियामके यन्त्रे तमादायाथ दीपयेत्”-इति नियमनम् । यत्रं तु मूलकृतैव प्रतिपादितम् । “मरिचैर्भूख गयुक्तैर्लवणासुरिशिग्रुटङ्कणोपेतैः । कानिकयुक्तैत्रिदिनं ग्रासार्थी जायते खेदात्" इति केचित् । भूः सौराष्ट्री, खगः तुत्थं, आसुरी राजिका, अथवा मुखगो भुजन्तुः । तुत्थमरिचयवक्षारत्रिलवणयुक्तकानिकमध्ये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144