SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः। टी०-अथ रसं कूप्या काचकूप्यां, नृफलोदरे नारिकेलफलमध्ये वा,सैन्धववारिणा सार्ध प्रक्षिप्य, सर्वात्मना भूमौ मृदा रोधयेत्रिदिवसम् । रोधनस्य फलं,"मर्दनैमूर्छनैः पातैम॒दुः शान्तो भवेद्रसः । सृष्ट्यम्बुजनिरोधेन ततो मुखकरो रसः" इति । सृष्टिः-शुक्र, मूत्रं, नारीणां रजश्च; अम्बुजं सैन्धवम् । अभारयुक्तचुल्यां मध्ये रोधनं पुटं वा । रसरत्नाकरे,-"लवणेनाम्बुपिष्टेन हण्डिकान्तर्गतं रसम् । आच्छाद्याथ जलं क्षिप्त्वा शरावेण निरोधयेत् ॥ ऊर्ध्व लघुपुटो देयो लब्धाप्यायो भवेद्रसः-” इति रोधनम् । सर्पाक्षीशितिधूर्तभृङ्गनलिनीभृङ्गीवचामागधी वन्ध्याकर्कटिकाकषायसलिलस्वेदैनियच्छेद्रसम् ॥ १२॥ ' संयमनमाह-साक्षीत्यादि । -सर्पाक्षी भुजङ्गाक्षी, शितिधूर्तः कृष्णधत्तूरः, भृङ्गो मार्कवः, नलिनी कमलिनी, भृङ्गी भङ्गा, वचा उग्रगन्धा, मागधी पिप्पली जलपिप्पली वा, वन्ध्याकर्कटिका अफला कर्कोटी, एषां कषायश्चतुर्थाशावशेषितः, तेन स्वेदै रसं नियच्छेत् नियमनं कुर्यादित्यर्थः । “चतुष्प्रस्थजलाधारं चतुरनुलकाननम् । घटयन्त्रमिदं प्रोक्तं तदाप्यायनकं स्मृतम्" इति ॥ १२ ॥ प्रकारान्तरमाह यद्वा मृन्मयभाजनान्तरगतं पूर्वोक्तवारा रसं - रुडा भूवलये तुषानलपुटैरूज़ नियच्छेद्रसम् । - मृन्मयभाजनान्तरगतं पूर्वोक्तवारा सह भूवलये रसं रुवा ऊर्ध्व तुषानलपुटैनियच्छेत् । भूगे पूरितपूर्ववारिणि रसं निक्षिप्य वस्त्रावृतं - भाण्डे योजितलोहखपरमुखे चोर्ध्व पुटे रोधयेत् ॥ १३ ॥ टी०-प्रकारान्तरमाह-भूग इति ।-पूरितपूर्ववारिणि भाण्डे रसं वत्रामृतं निक्षिप्य, लोहखर्परं लोके 'तवा' इति मुखे दत्त्वा, ऊर्ध्व करीषाग्निं दद्यादिति वाक्यान्वयः। अर्थस्तु स्फुट एव । पूर्ववारिति धूर्तकषायादिकम् । उक्तं च,-"खेदनादिवंशात्सूतो वीर्य प्राप्नोत्यनुत्तमम् । नियम्योऽसौ ततः सम्यक् चपलत्वनिवृत्तये"इति । रसरत्नाकरस्तु,-"कर्कोटौं क्षीरकन्दं च सर्पाक्षी यवचिश्चिकाम् । पढ निम्बं भृङ्गराजं व्यस्तं वाऽथ समस्तकम् ॥ कल्कयेदारनालेन तद्धैः पाचयेद्रसम् । दिनं नियामके यन्त्रे तमादायाथ दीपयेत्”-इति नियमनम् । यत्रं तु मूलकृतैव प्रतिपादितम् । “मरिचैर्भूख गयुक्तैर्लवणासुरिशिग्रुटङ्कणोपेतैः । कानिकयुक्तैत्रिदिनं ग्रासार्थी जायते खेदात्" इति केचित् । भूः सौराष्ट्री, खगः तुत्थं, आसुरी राजिका, अथवा मुखगो भुजन्तुः । तुत्थमरिचयवक्षारत्रिलवणयुक्तकानिकमध्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy